________________ उपमितिभवप्रपंचाकथोद्धारे- अधिकार -1 तदा कश्चिदनर्थो न जातः, गुरुसङ्गमेन च धर्मप्राप्तिः कर्महानि-श्वाऽभवत् / इति कालविलम्ब एव श्रेयान् / ततः सामान्यरूपा मध्यमबुद्धिं प्रति वक्ति- "वत्स ! त्वयाऽपि कालविलम्बेन परीक्षा विधेयेति / " मातृवचोऽङ्गीकृत्य मध्यम-बुद्धिस्तथा प्रवर्त्तते / बालस्य मदनकन्दलीस्पर्शः, सङ्गेच्छा च अथैकदा नैकपुष्पप्रकर-पराग-पिञ्जरित-दिगन्ते सहकार-सुम-रसास्वादजातोन्मादपिकनिकर-कलस्व-मुखरितवनान्ते वसन्तोत्सवे प्रवृत्ते सर्वेऽपि नागरिक-लोकाः कामदेव-पूजार्थमुउद्यानं यान्ति / तान् विलोक्य बालोऽपि स्पर्शन-द्वितीयो गन्तुं प्रवृत्तः, तदा मध्यमबुद्धिरपि तेन सार्धं गतः / एवं तौ बाल-मध्यमबुद्धि द्वावपि नाना-जनकौतुकान् पश्यन्तौ कामदेवस्य मन्दिरे गतौ / अथ बालः कौतुकलोलुपो मन्दिरान्तर्गर्भगृहं प्रविष्टस्तत्र कामदेवयोग्यामअत्यन्त-सुकुमार-शय्यां दृष्ट्वा करस्पर्शमात्रेण जाताऽनुरागः सन् देहाश्रित-स्पर्शनकुमित्रानुभावात् विस्मृत-देवशय्या-परिभोगानर्थोदयस्तां शय्यामारुह्य सुप्तः / मध्यमबुद्धिस्तु बहिरेव स्थितोऽस्ति / तदवसरे तस्य क्षितिप्रतिष्ठितपुरस्य शत्रुमर्दनाभिधो यो बहिरङ्गनृपोऽस्ति तत्पट्टराज्ञी मदनकन्दली कामपूजार्थमागता, साऽपि तं गर्भगृहं प्रविश्य यावत् कामदेवस्य महाशय्यां पूजयति तावता बालस्याऽङ्गे तस्या हस्तो लग्नः, तत्स्पर्शादहो ! एतस्यास्तनुसुकुमारतेत्यादि-चिन्तयन् बालोऽतिविकलो जातः, राज्ञी तु शय्यां पूजयित्वा स्वस्थानं गता / / ___ अथ राज्ञी-स्पर्श-वैकल्यादितस्ततो विलुठन् कुतोऽप्यागतेन शय्या-पालकव्यन्तरेण दृष्टः / तेन "रे रे मरणाभिलाषिन् ! महापराधिन् ! काम-शय्याक्रमणाऽपराधात् मत्प्रहाराभिहतः शीघ्रं यमसदनाऽतिथिर्भव" इत्युक्त्वा लोहशृङ्खलाभिदृढं बद्ध्वा बहुधा विडम्ब्यमानो बहिर्नीत्वा सर्वजनसमक्षं लोहमुद्गरेण प्रहर्तुमारब्धस्तावता तत्रस्थेन मध्यमबुद्धिना दृष्टस्तेन च बहुधा विनय-प्रतिपत्त्या मधुरवाक्यैश्च तस्य व्यन्तरस्य कोपोपशमं कृत्वा मोचितो बालः क्रमेण गृहमानीतः पृष्टश्च "भ्रातः ! तव कुत्र कुत्राऽङ्गे प्रहारजा व्यथाऽस्ति" इति तदा बालः प्राह- "भ्रातः ! मम हृदये मदनकन्दल्या विप्रयोगजा महाव्यथाऽस्ति, नाऽन्यत्र क्वाऽपि काऽपि व्यथाऽस्ति'' तदाकर्ण्य मध्यमबुद्धिराह- "अहो ! एषा राज्ञः पट्टदेवी, यस्यां या तव रमणेच्छा सा तु महानाय, अतोऽतः परं नैतदभिलषणीयमिति" तद्वाक्येन रुष्टो बाल: सक्रोधं प्राह- "कृतं तव नैपुण्येन यदि मे शक्तिरस्ति तत् तामवश्यां रंस्येऽत्र किं तेऽपराध्यतीति" श्रुत्वा मध्यमबुद्धिौनमास्थितः / - अथ रात्रौ राज्ञी-सङ्गेच्छया बालो गृहाद् बहिर्निर्गतस्तं चाऽवलोक्य मध्यमबुद्धिरपि भ्रातृ-स्नेहेन तस्याऽनुपदं चलितः। तदा कश्चिदेको विद्याधरो बालं गृहीत्वा व्योम्नि