________________ पण्डित श्री हंसरत्नविरचिते अथ बाल: स्पर्शनं सार्धं गृहीत्वा मनीषिणा सह स्वसदनमागतः / अथ स्पर्शनबालयोमैत्री विज्ञाय बालस्य माता अकुशलमाला हृष्टा पुष्टिं दधौ, मनीषि-माता तु स्पर्शनागमं ज्ञात्वा "वत्स ! अनेनाऽज्ञातकुलशीलेन स्पर्शनेन सह मैत्री मा कार्षीरिति मनीषिणं न्यषेधयत् / तयोः पिता कर्मविलास-राजा तु 'यो यः स्पर्शनस्य सङ्गं करिष्यति तस्य तथाविधं विपरीतं फलं दर्शयिष्ये' इति विचिन्त्य मौनवान् तस्थौ / / सदागमादेशेन भव्यजीवस्य स्पर्शनमैत्री त्यागः अथ बालं स्पर्शनाऽऽसक्तचित्तं दृष्ट्वा मनीषी स्पर्शनमूलशुद्धयानयनार्थं स्वाङ्गरक्षं बोधनामानं समादिशत् / तेन बोधेन स्पर्शनशुद्धि-ज्ञानाय प्रभाव-नामा दूतः प्रेषितः तेन च भ्रमता सर्वाणि बाह्यनगराणि अवलोकितानि / तत्र वापि स्पर्शनमूलशुद्धिर्न ज्ञाता / अथान्तरङ्गपुरेष्ववलोक्यमानेषु राजसचित्त-नगरं प्राप्तः, तत्र परिसरे एकं पुरुषं दृष्ट्वा प्रभावेण पृष्टम्- "अहो ! किमिदं नगरं? कोऽत्र समाचार: ? त्वं च क ?' इति श्रुत्वा स प्राह राजसचित्ताऽऽख्यमिदं नगरम्, अत्र महामोहराजस्य ज्येष्ठपुत्रो रागकेशरी राज्यं करोति, तस्य विषयाभिलाषनामा मन्त्री, तेन स्वराज्ञ इन्द्रादिसेव्यत्वकरणार्थं स्पर्शन-रसन-घ्राणचक्षुः-कर्णाऽऽख्यानि पञ्च मानुषाणि महावीर्याणि दिग्विजयाय प्रेषितानि अभूवन् / तैश्च सर्वेऽपि हरि-हर-शक्रादयो निर्जित्य स्वनृपस्य रागकेशरि-राजस्याऽऽज्ञावशंवदाश्चक्रिरे। ततस्त्रिभुवनेऽपि रागकेशरिराजस्याऽऽज्ञाऽस्खलिताऽभूत् / महामोह-रागकेसरि विषयाभिलाषादीनां चारित्रधर्मेण सह युद्धार्थं प्रस्थानम् ___ अत्रान्तरे चारित्रधर्मनृपस्यैकं सन्तोषनामा भटोऽस्ति, तेन महावीर्यवता दुष्टेन तानि पञ्च मानुषाणि पराभूय केचिजना रागकेशरिनृपाज्ञातो नि:ष्काष्य महामोहादीनामप्यगम्ये मुक्तिदुर्गे प्रस्थापिताः, तच्छ्रुत्वा रागकेशरिराजा स्वसैन्यं मेलयित्वा विषयाभिलाषं सहाऽऽकार्य महामोहादिभिः सहितो सन्तोषेण सह सङ्ग्रामार्थं गतोऽस्ति, अहं तु विपाकनामा विषयाभिलाषस्य दूतो नगरसमाचार-ग्रहणार्थं प्रेषितोऽस्मि इति तदुक्तां स्पर्शनमूलशुद्धिमयीं वार्तां निशम्य प्रभावः कृतकृत्यः सन् आगत्य बोधायाऽकथयत् / बोधस्तु मनीषि-पुरः सर्वं वृत्तान्तमाचख्यौ / अथ स्पर्शनं विषयाभिलाषस्य सेवकं विज्ञाय मनीषी सर्वथा तत्-सङ्गं तत्याज / बालस्तु स्वस्य मौर्येण गुणदोषानभिज्ञः स्पर्शनं परमाभीष्टं मेने / बालस्य मात्रा अकुशलमालयाऽपि मन्त्रशक्त्या स्वपुत्रस्तथा प्रेरितो यथा विशेषतः स्पर्शनस्याऽधीनो जातः /