________________ उपमितिभवप्रपंचाकथोद्धारे- अधिकार -1 राजन् ! कृतं खेदेन, असाध्ये कार्ये कः खेदः? माध्यस्थ्यमेव श्रेयः / किञ्च प्रच्छन्नोऽपि पुण्योदयो यावदस्य पार्श्वे स्थास्यति तावद् वैश्वानरकृतास्तास्ता विडम्बना अपि पुण्योदय-प्रभावात् शुभफलत्वेन परिणमिष्यन्ति / " इति तद्-वाक्यमाकर्ण्य माध्यस्थ्यमाधाय नृपो जिनमतज्ञं बहुधा सत्कार्य व्यसृजत् / बालस्य स्पर्शनेन सह मैत्री अथाऽन्यदा राजा विदुराख्यं मम वयस्यं वैश्वानरत्यागोपदेशार्थं मत्पार्श्वे प्रेषयामास। स च नृपोक्तं प्रमाणीकृत्य कलाचार्यगृहे मत्पार्थे आगतः / पृष्टश्च मया "भो मित्र ! त्वं गतेऽह्नि कथं नाऽऽगतः?'' सोऽप्युवाच- "भो मित्र ! गतेऽह्नि तु नृप-सदसि जैनमतज्ञेनैका सुन्दरवार्ता कथिता, तच्छ्रवणे भूयसी वेला जाता, तेन त्वत्पार्थे मया नाऽऽगतम् इत्याकर्ण्य कौतुकाक्षिप्तेन मया पृष्टं "कीदृशी सा वार्ता ? मामपि श्रावय।" ____ अथ विदुर आह- मनुष्य-नगरे भरत-नाम्नि पाटके क्षितिप्रतिष्ठितं नाम नगरं, तत्र कर्मविलासो राजा तस्य तिस्रो राश्यः शुभसुन्दरी, अकुशलमाला सामान्या चेति तासां तिसृणां क्रमेण मनीषि-बाल-मध्यमबुद्धिनामानस्त्रयः पुत्राः / अथैकदा मनीषि-बालौ द्वौ बन्धू क्रीडार्थमुद्यानं गतौ, तत्रैकं तरुशाखा-निबद्धपाशं मरणोन्मुखं नरं दृष्ट्वा झटिति तत्पार्श्वमागत्य पाशं च त्रोटयित्वा तदुःखकारणं पृच्छतः स्म / स पुमान् आह- "श्रूयेतां कुमारौ ! मदुःखकारणं- स्पर्शन-नामाऽहं, एको भवजन्तु-नामा मम वयस्योऽभूत्, स च मां मृदुशय्या-सूक्ष्मांशुक-शिशिरविलेपन-प्रियाश्रूषाद्यैर्बहुधा अपोषयत् / अथा-ऽन्यदा मदभाग्यबलात् कुतोऽपि तस्य सन्तोषेण समं मैत्री जाता, तत्प्रसङ्गात् तबन्धुः सदागमोऽपि दृष्टः / अथ ताभ्यां विप्रतारितः स भवजन्तुर्मयि विरक्तः सन् व्रतमादाय विषमभूशयन-केशलुञ्चन-शीतोष्णादिपरीषह-सहनादिनानोपायैः मां व्यडम्बयत्, यद् यत् सन्तोषसदागमादिष्टं तत्तदकरोत् / इत्थं मयि स्नेहं सर्वथा विमुच्येदानीं सदागमाज्ञया मुक्तिनगरगतः श्रूयते, ततस्तन्मित्रविप्रयोगेण निराधारोऽहं, किं मम जीवितेनेति मृत्यु समीहे / " एवं स्पर्शनोक्तं व्यतिकरमाकर्ण्य बाल उवाच - "अहो मित्र ! निःस्नेहेन तेन सह कस्तवाऽयं व्यर्थ-प्रेमाऽऽबन्धः ? स भवजन्तुः गतश्चेद् यातु, तदा खेदं मा कुरु। अद्य प्रभृत्यहमेव त्वां मित्रत्वेन प्रपन्नः / " / अथ मनीषी तु चेतस्यचिन्तयत्-यदुत सन्तोष-सदागमौ सर्वलोकहितकारिणौ स्तः, ताभ्यां यद्येतस्य स्पर्शनस्य सङ्गं त्याजयित्वा भवजन्तुर्मुक्तौ प्रेषित: तर्हि अयं कश्चित् दुष्टो भविष्यति, ततो नाऽयं मैत्रीकरण-योग्य इति न किञ्चिदप्यवोचत् /