________________ पण्डित श्री हंसरलविरचिते कियन्तं कालं प्रतीक्ष्य पश्चादेनं परिहरिष्यामीत्यन्तर्द्धाय मत्पार्थे तस्थौ / मम तु दिने दिने वैश्वानरेण सह प्रीतिर्ववृद्धे / अथ क्रमेणाऽहं अष्टवार्षिकोजातः तदा पित्रा बुद्धिसमुद्रोपाध्यायान्तिके पठनार्थं मुक्तः, पुण्योदयप्रभावेन सकलकलाप्रवीणो जातः, परं वैश्वानरोपदेशेनाऽहं गुरुशिक्षां तृणायाऽपि न मन्ये / यः कश्चिदन्योऽपि हितशिक्षा वदति तमपि ज्वलन्नेत्रो भूत्वा प्रहर्तुमुद्यतो भवामि / एवं दुष्टमित्रशिक्षया येन तेनाऽपि सार्धं निष्कारणं रुष्यन् अनिशं ज्वलद्-वह्निरूपो भूत्वाऽतिष्ठम्, मां प्रति कोऽपि किञ्चिदपि हिताहितं वक्तुं न शक्नोति / इत्थं च विद्याः सर्वा अपि विस्मृताः, राजपुत्रत्वात् मुखेन न कोऽपि दोषं जल्पति, परोक्षतस्तु सर्वेषां हास्यजुगुप्साऽऽस्पदं जातः। अथ मां वंशवर्त्तिनं ज्ञात्वा वैश्वानरमित्रेण क्रूरचित्ताभिधकार्मणवटकप्रदानेन विशेषतः स्वाधीनः कृतः। पितुश्चिन्ता क्रोधत्यागोपायपृच्छा / / अथैकदा राज्ञा एको विदुर-नामा मद्वयस्यो विश्वासास्पदं मविद्या-परीक्षार्थं आदिष्टः, तेन सर्वमपि मम चेष्टितं भूताविष्टस्येव विलोक्य राज्ञः पुरो गत्वा निवेदितं, तन्निशम्य दुःखार्तेना राज्ञा उपाध्यायः समाहूय पृष्टः, तेनाऽपि मम दुर्विनीतत्वं तथैवोक्तं, राज्ञा वैश्वानरसङ्गत्याजनोपायं पृष्ट उपाध्यायोऽवोचत्- राजन् ! अस्मत्-पुरमध्ये एको जिनमताभिज्ञः सिद्धपुमान् आस्ते, तमाकार्य प्रश्नः क्रियताम्, स चैतदुपायं दर्शयिष्यति। ततो राज्ञा जिनमतज्ञः समाकारितः पृष्टश्च "स्वामिन्! अयं नन्दिवर्धनकुमारः कथंः वैश्वानरस्य सङ्गं त्यजेत् ? इति।" ततो ज्ञानोपयोगं दत्त्वा तदुपायं विज्ञाय जिनमतज्ञ उवाच- "राजन् ! श्रूयतां.... चित्तसौन्दर्यमहानगरवर्णनम्...... चित्तसौन्दर्यनगरे शुभपरिणामाख्यो नृपः नि:ष्कम्पिताख्या तददेवी, तयोः कन्या क्षमा नाम्नी, तां चेत् नन्दिवर्धनः परिणयेत् तदा वैश्वानरसङ्गं त्यजेत् / ' तत् श्रुत्वा राज्ञा मतिधनमन्त्रि- सम्मुखं विलोक्य कथितं- "क्रियतां नन्दिवर्धनस्य तया सह विवाहसम्बन्धः'। तदा जिनमतज्ञेनोक्तं- "राजन् ! नैतद् बाह्यनगरं, नाऽसौ बाह्यो राजा यत्र त्वत्पराक्रमं चलति / एतच्चित्तसुन्दराख्यं तु आन्तरङ्गं पुरं, तत्र कर्मपरिणामराजस्य सुभटः शुभपरिणाम-राजा / स यदि कर्मपरिणामराजाज्ञया कर्मपरिणामस्य दुहितरं लोकस्थितिं तथा तद्-देवीं कालपरिणत्याख्यां स्वभावनामानं महामात्यं च पृष्ट्वा नन्दिवर्धनस्याऽनादिसम्बन्धिनीं भवितव्यतापत्नी चाऽनुकूलयित्वा स्वकन्यां क्षमां ददाति, तदा नन्दिवर्धनो वैश्वानर-सङ्गं जह्यादिति" श्रुत्वा विषण्णमानसं नृपं वीक्ष्य पुनर्जिनमतज्ञ आह .