________________ उपमितिभवप्रपंचाकथोद्धारे- अधिकार - 5 तिर्यञ्चपञ्चेन्द्रिय गतौ विविध-कदर्थना-प्राप्तिः अथ पुनः किञ्चित् प्रसन्नया तया विकलेन्द्रिय-पुरात् नीतोऽहं पञ्चेन्द्रिय पशुसंस्थानपुरे, तत्राऽपि गुटिका-प्रयोगेण जलचर-स्थलचर-खेचरादि-स्थानेषु विविधरूपः कृत्वा अपर्याप्तत्वेन क्वचित् क्वचिच्च पर्याप्तत्वेन च एवं भृशं नाटितः / अथैवं असंव्यवहारनगरादारभ्याऽनन्तकालं यावत् नाना-जाति-योनि-कुल स्थानेषु नानारूपनाना-कदर्थनादि-विडम्बना-सहनेन तुष्टा ममोपरि भवितव्यता, तदा पुण्योदयाख्यं सहायं दत्त्वा मां प्रति इदमवोचत्- 'हे आर्यपुत्र ! बहुकालं यावत् कष्टसहनेन तवाऽध्यवसाय: किञ्चित् सुन्दरोऽजनि, तत एनं. पुण्योदयं सखीकृत्य मनुष्यगतिपुरीं प्रचलेति' तदुक्तं मयाऽङ्गीकृतम् / हे अगृहीतसङ्केते! संसारिजीवो वक्ति- इदानीं मे मनुष्यगतिपुरागमनवार्ता सावधाना शृणु - मनुष्यगतौ क्रोधसङ्गतिः, क्रूरचित्तता च अथ सदाग़म-भव्यजीवाऽगृहीतसङ्के ता-प्रज्ञाविशालाश्चत्वारोऽपि शृण्वन्ति संसारिजीवः कथयति अथ मनुष्यगति-पुर्यां भरताख्यपाटके जयस्थलं पुरमस्ति, तत्र राजा पट्टः, तस्य नन्दा पट्टराज्ञी, तस्याः कुक्षौ गुटिकाप्रदानेनाऽहं भवितव्यतयाऽवतारित: क्रमेण पूर्णकाले पुण्योदयेन सह जातो, राज्ञा महामहै: नन्दिवर्धन इति मम नाम निर्ममे / अथ तत्राऽहं पञ्चभिर्धात्रीभिाल्यमानो मातापित्रोर्मनोरथैः सह प्रवर्द्धमानस्त्रिवर्षदेशीयोऽभूवम् / अथ असंव्यवहार-नगरतः प्रस्थानादारभ्य मम द्वे कुटुम्बके स्तः बहिरङ्गमान्तरङ्गं चेति / तत्राऽऽन्तरङ्गकुटुम्बमध्ये अविवेकिताख्या या ममोपमाता तयाऽपि मज्जन्मकाले पुत्रो जातस्तस्य वैस्तानर इति नाम दत्तम् / - स च वैरकलहरूपचरणद्वयः, ईर्ष्या-चौर्यतारूपजङ्घयुगलः, पश्चात्तापा-ऽनुपशमोरुद्वयः पैशुन्यरूपकटिप्रदेशः, परमर्मघट्टनरूपजठरः, अन्तस्तापाभिधविशालहृदयः, द्वेषमत्सररूपहस्तयुगमण्डितः, क्रूरपरिणतिग्रीवाकः, नानाऽसत्यभाषणरूप-रदनः, चण्डत्वा-ऽसहन-रूपकर्णद्वयः, तामस-शीलनत-नासिकः, रौद्रत्व-निर्दयत्वद्विलोचनः, अनार्यत्वरूपत्रिकोणशिराः, परोपतापरूपकेशपाशः एवंविधातिपुष्ट-प्रचण्डसर्वावयवः / अथ क्रमात् मया सार्द्ध च प्रवर्धमानेन तेन सह मया मैत्री कृता, सोऽपि क्षीरनीरवद् देहाभेदेन मिलितः, अथाऽऽवयोमैत्रीं दृष्ट्वा पुण्योदयोऽतिखेदं प्राप्तश्चिन्तयामास / यदयं नन्दिवर्द्धनो मद्विपक्षस्य वैश्वानर-कुमित्रस्य सङ्गं करोति, तदसौ महाविडम्बनाऽऽस्पदं , भावी, न चाऽस्य पार्श्वे स्थातुं मे युक्तं, परं किं कुर्वे नाङ्गीकृतत्यागः सतां धर्मः, अतः