________________ पण्डित श्री हंसरत्नविरचिते निगोदस्वरूपम् अथाऽन्यदा कर्मपरिणामराजस्य भगिन्या लोकस्थिति-नाम्या प्रहितस्तन्नियोग-नामा दूतः, तत्राऽऽगत्य द्वौ अधिकारिणौ प्रत्यवोचत- "आदिशति देवपादानां भगिनी लोकस्थिति-स्वामिनी यत् सदागमनामा राज्ञो महाविपक्षः स मनुष्यगति-पुर्या लोकान् विप्रतार्य, राजाऽऽज्ञां विलयित्वा मुक्तिपुरे प्रस्थापयति, ते च ततः कदापि पुनर्नाऽऽयान्ति,. ततो नगर्यां लोकहानिर्जायते, ततो यावन्तो मुक्तौ यान्ति तावन्तो जना अनन्तवास्तव्यजनाकीर्णाद् असंव्यवहार-नगरादत्राऽऽनेया, यथा वसतिर्विरला न स्यात्। इत्येष नियोगोऽस्माकं दत्तोऽस्ति, ततो युवाभ्यां अस्मात् पुरात् कियन्तो जना: प्रेषणीया'' इत्येतद् दूत-वाक्यं निशम्य, स्वामिन्याज्ञां शिरसि धृत्वा अत्यन्ताबोध-तीव्रमोहोदयौ या. सकलकार्येष्वापृष्टव्या भवितव्यता-नाम्नी संसारिजीवगृहिण्यस्ति, तया सह समालोच्य तां च सहाऽऽकार्य यत्र गोलक-नामानोऽसङ्ख्य-प्रासादाः, प्रतिप्रासादं चाऽसङ्ख्याता निगोदनामापवरकाः प्रत्यपवरकं चाऽनन्ता: संसारिजीवाः परस्परनिबद्ध-परममैत्रीका: समकाहार-नीहारादिकर्तारः संवसन्ति, तत्राऽऽयातौ आगत्य च सर्वसंसारि-जीवान् विलोक्य ताभ्यां भवितव्यतया सहाऽऽलोच्य योग्यतां मत्वा अहं प्रस्थापितः, ते त्रयोऽपि : च मया सहाऽऽगताः / ___ संसारिजीवस्य व्यवहारराशौ आगमनम् अथाऽग्रत एकेन्द्रियनाम-नगरमागतं तत्र पृथिव्यप्-तेजो-वायु-वनस्पतिकायाख्या पञ्चपाटकाः सन्ति / तत्र वनस्पति-पाटकः साधारण-प्रत्येकभेदाभ्यां द्विविधोऽस्ति / तत्र साधारणस्तु बादरनिगोद इत्युच्यते / पृथिव्यादीनां एतेषां व्यवहारराशिरिंति संज्ञा। अथाऽहं भवितव्यतया एकभववेद्यनामाऽचिन्त्यशक्तिगुटिका-प्रयोगेण साधारणवनस्पति-रूप: कृत्वा बादर-निगोदेष्वनन्तं कालं धृतः / ततश्च नवा नवा गुटिका वितीर्य नव-नव रूपः कृत्वा पृथिव्यादि-पञ्च पाटकेषु प्रतिपाटकमसङ्ख्यातं कालं धृतः / तत्राऽहं भवितव्यतया कुभार्यया अत्यन्ताबोधतीव्रमोहोदययोः समक्षं छेदन-भेदनादि-विडम्बनाभि-र्बहुधा विडम्बितः, ततो भूयसा कालेन ईषत्-प्रसन्नया तया तस्मान्नगरादग्रे प्रस्थापितः, आनीतश्च विकलेन्द्रिय-नाम्नि पुरे, तत्र द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रियाख्यास्त्रयः पाटकाः सन्ति, तेष्वप्यहं नव-नवगुटिका प्रदानकृतनानारूपः प्रतिपाटकं सङ्ख्यातं कालं भ्रामितः। एवमनेकेषु योनिलक्षेषु कियतीषु च कुलकोटिषु चाऽसङ्ख्यातं कालं विकलेन्द्रिय-पुरे तयाऽहं विडम्बितः /