________________ 3 उपमितिभवप्रपंचाकथोद्धारे- अधिकार -1 स्ववचनासक्तान् जीवान् कर्मपरिणाम-राज्ञः शासनात् निःष्कास्य निर्भयं अनन्तसुखास्पदं मुक्तिनगरं प्रापयति / ये च पापिष्टाः सदागमनिन्दका: स्वाज्ञा-विरूद्धचारिणः तानुपेक्षते, ते च सदागमोपेक्षिता सन्तो निराधारा अनाथा अनन्यगतिकाः कर्मपरिणामेन राज्ञा कामक्रोधादि तद्भटैश्च नाना-विडम्बनाभिर्विडम्बयित्वा नरक-निगोदादि-कारागृहे क्षिप्यन्ते। तथा च मत्यावधि-मन:पर्यव-केवलज्ञानाभिधाश्चत्वारो मनुष्यगतिपुर्यां प्रधानपुरुषास्तेऽपि सदागमस्य वशंवदास्तिष्ठन्ति / इत्यादि विश्वातिशायि-सदागमातिशयं पश्यन्त्यौ द्वे सख्यौ सदागमं प्रणम्य तत्रोपविष्टे / __ अथ तत्र भव्यपुरुषोऽपि विनय-गाम्भीर्य-धैर्यादि-गुणकलितः सदागम-पार्श्वे पठति, सदागमोऽपि तं स्नेह-सान्द्र-दृष्ट्या सम्भावयति / तद्-विलोक्याऽगृहीतसङ्केता-प्रज्ञा विशाले अपि नाना-गुणप्राप्तिहेतुं सकल क्लेशनाशकं तदाश्रयं मत्वा सदागमं सेवमाने स्थिते स्तः / अत्रान्तरे कश्चित् पुमान् रासभारूढः कृतवध्यमण्डनः काहलारव-जनितोत्कम्प: यमकिङ्करप्रायै राजपुरुषैर्विविधं विडम्ब्यमानस्तत्राऽग्रतो निर्गतः / तं विलोक्य करुणया "अये ! त्वं सदागमं शरणीकुरु, येन सर्वं त्वत्कष्टं विलीयते," इति-प्रज्ञाविशालयोक्तं, तदाकर्ण्य तस्य ज्ञानोदयोऽभूत्, झगिति सदागमस्य पादयोर्निपत्य शरणं चक्रे / सदागमेनाऽपि कृपया विलोकितः, तस्य दृष्टिमात्रादेव सर्वे विडम्बकनरा दुरं गताः, जनाः सर्वे विस्मिताः, स नरोऽपि सुस्थीभूय सदागमान्तिके निविष्टः / . - अथाऽगृहीतसङ्केता पृच्छति- "अहो ! भद्र ! कस्त्वम् ? कस्तेऽपराधश्च ? येन तवेदृशी महाविडम्बना जाता?" इति श्रुत्वा स नरः प्राह- "संसारिजीव-नामाऽहं चौरः। ममाऽपराधानां का वार्ता ? अहं महापराधी, मम सर्वोऽपि व्यतिकरोऽयं महात्मा सदागमो जानीते / स्वमुखेन कियन्त स्वापराधान् वच्मि ?" अत्राऽन्तरे सदागमः प्राह"भो भद्र ! यद्येतस्यास्तव वृत्तान्तश्रवणे कौतुकमस्ति तत् त्वमस्याः पुरः समग्रं स्ववृत्तान्तं निरूपय इत्युत्क्वा सदागमो भव्यपुरुषः अगृहीतसङ्केता- प्रज्ञाविशाले संसारिजीवश्च सर्वेऽप्येते रहसि उपविष्टाः / संसरिजीवस्य आत्मकथा ___ अथाऽगृहीतसङ्केतां सम्बोध्य संसारिजीवः स्वव्यतिकरमाह- तथाहि- "अस्त्यनाद्यनन्तं असंव्यवहार नाम नगरं, तत्र अनादि-वनस्पतिनामानोऽनन्ता जानपदा वसन्ति, कर्मपरिणामेन राज्ञा तद्-रक्षायै नियुक्तौ अत्यन्ताबोध-तीव्रमोहोदय-नामानौ द्वौ अधिकारिणौ सदा तिष्ठतः / तत्रत्याः सर्वेऽपि ते पौराः सदैवाऽज्ञानाभिभूता मूर्च्छिता इव तिष्ठन्ति, अहमपि चिराय तत्राऽवसम् /