________________ पण्डित श्री हंसरलविरचित कृतार्था भवामि / " इत्याकर्ण्य नृपः प्राह "देवि ! मच्चेतस्यपि प्रागयमभिलाष आसीत्, अतः परं तु आवयोरेकचित्तत्वेन शीघ्रं कार्यनिष्पत्तिर्भवित्री" / तच्छ्रुत्वा राज्ञी "तथाऽस्तु" इत्युत्क्वा शकुन-ग्रन्थिं बद्ध्वा मुदिता सती तस्थौ / अथैकदा राज्ञी एवं स्वप्नमद्राक्षीत् यत्- "कश्चित् पुमान् मुखेन प्रविश्य उदरेण च निर्गत्य केनचित् मित्रेण प्रलोभितः सन् तेन सह ययौ / " तदर्थं पृष्टो नृपः प्राह- "देवि! तव पुत्रो भावी, परं कस्यचिद् धर्माचार्यस्य वचसा प्रतिबुध्य आवां त्यक्त्वा स्वार्थ साधयिष्यति" / देवी प्राह- "पुत्र-प्राप्त्यैव फलितं मे मनोरथैः ततः परं तु यद् भवतु तद् भवतु"। ___ अथ तस्या देव्या गर्भोऽजनि, तदनुभावाच्च नैके धर्मकरणदोहदाः समजायन्त, तांस्तांश्च राजा पूरयति स्म / भव्यपुरुषस्य जन्म, सदागमस्वरूपम् / ___ एवं च पूर्णे गर्भकाले समुहूर्ते प्रसूतः पुत्रः, राज्ञा महामहैः कृत्वा सुदिवसे भव्यपुरुष इति तन्नाम ददे, मात्रा च स्वरुच्यनुसारि वात्सल्य-जनितं सुमतिरिति नाम दत्तं / स च माता-पितृभ्यां लाल्यमानः प्रवर्धते / अथ तत्र मनुष्यगतिपुर्यां द्वे स्त्रियौ अगृहीतसङ्केता-प्रज्ञाविशाला-मान्यौ अन्योऽन्यं सख्यौ स्तः, एकदा अगृहीतसङ्केतया प्रज्ञाविशाला पृष्टा- "हे सखि ! अस्मन्नगर्या राजा निर्बीजो राज्ञी च वन्ध्येति लोकप्रवादः पूर्वं आवाभ्यां श्रुतोऽभूत्, इदानीं तु तयोः सुत-सम्भवः श्रूयते किमेतत् ?" तच्छ्रुत्वा प्रज्ञाविशाला प्राह- "सखि ! त्वं तु अगृहीतसङ्केतेति यथार्थाभिधाऽसि यतः किमपि वस्तु-स्वरूपं नाऽवधारयसि यतोऽखिलस्यापि चराचरस्य विश्वस्य एतावेव जननी-जनकौ, समग्रमपि, विश्वमनयोरेव सन्ततिः, परं राजराज्यौर्निबीज-वन्ध्यात्व-प्रवादस्तु अविवेकादिमन्त्रिभिदृष्टिदोषभिया कृत आसीत् / अधुना तु देव्या प्रेरितेन राज्ञा तान् मन्त्रीन् अवगणय्य पुत्रजन्ममहोत्सवेन सा वचनीयता निरस्ता'। ___ अगृहीतसङ्केताऽऽह- "हे सखि ! एतत् सर्वं त्वं कथं जानासि?" प्रज्ञाविशाला प्राह"अत्रैव पुरे एकः प्रधानपुरुषः सकलजीवहितकारी सदागम-नामा वसति, तेन सह मम प्रीतिरस्ति / स तु राज-रायोः सर्वा अपि रहस्यवार्ता जानाति, ततोऽहमपि जानामि / किञ्च तं भव्यपुरुषं कुमारं भविष्यद्-गुणिनं मत्वा मन्मुखेनाऽऽकार्य स सदागमः स्नेहेन पाठयति / परं तेन सार्द्ध राज्ञोऽविवेकादि-मन्त्रिणां काम-क्रोधादिभटानां वा केषामपि बलं न स्फुरति / ततो महासत्त्वो महोपकारी चाऽसौ सदागमः," इत्यादि वार्तां श्रुत्वा अगृहीतसङ्केतोचे- "हे सखि ! तं सदागमं सकृत् मां दर्शय," ततस्ते सदागम-दर्शनार्थं महाविदेहरूपचतुःष्पथे सदागम-वसतौ समागते विलोकयतः, तत्र च सदागमः स्वभक्तान्