________________ उपमितिभवप्रपंचाकथोद्धारे- अधिकार -1 . अत्राऽन्तरे सामान्यरूपाया: सुतो मध्यमबुद्धिनामा किमपि ग्रामान्तरं गत्वा गृहमायातः, तेन स्पर्शनो दृष्टः, ते दृष्ट्वा बालः पृष्टः- "कोऽयं नवीनः पुमान् ?' बालेनोक्तम्, "अयं स्पर्शन-नामा मे परममित्रम्, अत्यन्तसुखदाता सत्पुरुषोऽस्ति / " मध्यमबुद्धिस्तदुक्तं मनसि धृत्वा पुनर्मनीषिणं रहस्यपृच्छत्- "कोऽयं नवीनः पुमान् ? येन सह बालेन सख्यं प्रपन्नमस्ति इति / " ततो मनीषिणोक्तम्- "अयं तु विषयाभिलाष-सेवकः स्पर्शन-नामा महादुष्टः। अस्य सङ्गात् के के विपदो न सम्भवन्ति ? ततोऽस्य छायाऽपि दूरतस्त्याज्या। त्वमप्यस्य सङ्गलेशमपि मा कार्षीरिति," तच्छ्रुत्वा मध्यमबुद्धिना स्वमाता सामान्यरूपा पृष्टा - "यत् हे मात: ! बालस्तु तावत् स्पर्शनस्य नैकधा प्रशंसां करोति, परं मनीषी तु स्पर्शनोऽयं दुर्जनो दूरत एव त्याज्य इति वदति / इति विसंवादे किमहं स्पर्शनेन समं मैत्री कुर्यां किमुत न कुर्यामिति ?" तदा सामान्यरूपा प्राह- "वत्स! यः पक्षो बलवान् स एव त्वयाऽऽश्रितव्यः, परीक्षा-करणावधि तु कालविलम्बः कर्त्तव्यः / प्रायोऽनिश्चितकार्येषु मिथुन-युगलवत् कालविलम्ब एव श्रेयान्।" मध्यम-बुद्धिः प्राह"मातः ! किं तत् मिथुनयुगलं ? कस्तस्य व्यतिकरः ?" कालविलम्बकरणे मुग्ध-अकुटिलीकथा - सा प्राह- "अस्ति मनुष्यगतिप्रायमेकं पुरं, तत्र ऋजुनामा राजा, प्रगुणा राज्ञी, तयोर्मुग्धनामा सुतः, अकुटिलाख्या तज्जाया / अन्यदा अकुटिला-मुग्धौ दम्पती क्रीडार्थ मुद्यानं गतौ, तत्रोद्याने द्वावपि पृथक् पृथक् पुष्पावचयादिक्रीडां कुरुतः, तदवसरे विचक्षणा-कालज्ञाभिधानौ देवी-देवौ दम्पती गगनाऽध्वनि गच्छतः तावपि उद्यानरमणीयतां वीक्ष्यं पृथक् पृथक् विलोकनार्थमुत्तीर्णौ / अथ तत्राऽकुटिलां वीक्ष्य मोहितः कालज्ञो भोगवाञ्छया मुग्धरूपं कृत्वाऽकुटिलामाकार्य कदलीगृहं गतः, एवं विचक्षणाऽपि मुग्धदर्शनात् मोहं प्राप्ताऽकुटिलारूपं विधाय मुग्धमाकार्य तदेव कदलीगृहं गता / अथ तयोमिथुनयोरन्योन्याऽऽलोकनात् महान् सम्भ्रमः समजनि, तदा अकुटिला-मुग्धाभ्यां आत्मने द्वे द्वे रूपे निरीक्ष्य विमृष्ट-यदेतत् किञ्चित् वनदेवता-विलसितम् इति मत्वा द्वे अपि मिथुने गृहमागते / अथ मुग्धस्य माता-पितृभ्यामपि मुग्धयुग्मं वधूयुग्मं च दृष्ट्वा, देव-कार्यं ज्ञात्वा, ते चत्वारोऽपि पुत्रस्नुषा-व्यवहारेणाऽभिमताः / अथैकदा कालज्ञेन विमृष्टं-यदुत एषा द्वितीयाऽकुटिला का भविष्यति ? तन्नूनं मत्पत्नी विचक्षणा-ऽप्यहमिव मुग्धरूपाऽऽक्षिप्ता सती मुग्ध-विप्रतारणार्थं कृत्रिममकुटिलारूपं विधायाऽऽगता दृश्यते, नो चेत् सा मदन्वेषणं कुर्वाणाऽऽयात्येवेति / ततो मत्कान्ता-स्वान्ताक्षेपकमेनं हन्मीति