________________ 121 उपमितिभवप्रपंचाकथाद्धारे अधिकार -7 महासिंहनिष्क्रीडित-भद्रादिप्रतिमा-चान्द्रायण-यवमध्य-वज्रमाध्यादीनि भूयांसि दुस्तपतपांसि विचचार / ध्यानमहिमादि __ अथ पुण्डरीकमुनिर्ज्ञानाभ्यासं कुर्वाणः क्रमेण गीतार्थो जज्ञे / तत एकदा सकलागमार्थसारं जिज्ञासुर्गुरुं विनयेन नत्वा पप्रच्छ- "भगवन्! आगमार्णवस्य किं सारमिति?" समन्तभद्रसूरिराह- "आर्य ! ध्यानयोग एव सर्वागमसारः / यतः सर्वेऽपि मूलोत्तरगुणाः साधूनां श्रावकाणां च सर्वा बहिःक्रिया ध्यानयोग-फला एवाऽतस्तैरङ्गभूतैश्चेतः शुद्धिं विधाय ध्यानयोगः साध्यो मुमुक्षुणेति / " पुण्डरीकः प्राह- "भदन्त! प्राग्बालकालेऽपि मोक्षमार्ग-कौतुकिना मया बहवः कुतीर्थिकाः पृष्टास्तैर्यथायथं स्वमतमालम्ब्य तत्त्वं निवेदितमभूत्, तथा ह्येके प्राहुः "यस्य बुद्धिःर्न लिप्येत, हत्वा सर्वमिदं जगत् / आकाशमिव पङ्केन नाऽसौपापेन लिप्यते // 1 // " इति केचिच्च-"छित्वा मित्त्वा च भूतानि, कृत्वा पापशतानि च। स्मेरेदेकं विरूपाक्षं सर्वपापैः प्रमुच्यते // 2 // " इति, अपरे तु "अपवित्रः पवित्रो वा, सर्वावस्थं गतोऽपि वा। यः स्मरेत्पुण्डरीकाक्षं, स बाह्याऽभ्यन्तरे शुचिः // 3 // इत्याहुः अन्ये तु पापशमनं मन्त्रमेव, पाप-निबर्हणमाहुः, अपरे वायुजयं, अन्ये तु हृदि स्थितस्य पुण्डरीकस्य चिन्तनं, तथाऽन्ये रेचक-कुम्भकादीन् वायून, इत्थमपरे नाद-बिन्दु-कलाज्योति-र्नाडी-प्रणव-शून्यादीनि ध्येयतया प्रचक्षते / तदेवं तेऽपि नाना-प्रकारैर्ध्यानयोगमेव सारं व्याचक्षते, परमेकत्र मोक्ष एव साध्येऽपरापरयोगिनां कोऽयं ध्येय-नानात्वभेद इति . मे महान् संशयः / " सूरिराह- "भद्र ! त्वं तु सामान्यगीतार्थस्ततो न जानासि विशेषतो जिनागमस्यैदम्पर्य, यत एते सर्वेऽपि तीर्थिकाः कूटवैद्यप्राया जिनसद्वैद्यस्य केवलं पल्लवग्राहिणः सन्ति / / . वैद्यकथा तथा ह्येकस्मिन् पुरे रोगाग्रस्त-समस्तजने एको महावैद्योऽस्ति, स चोत्पन्न-दिव्यज्ञान: समस्तवैद्यसंहितानां स्रष्टा, निःशेषरोगहर्ता, उपकारकृत् सर्वलोकानां, तथापि तत्रत्यजना अधन्यतया नाऽङ्गीकुर्वन्ति तद्वचः / केचिद् भावि-कल्याणास्तु प्रतिपद्यन्तेऽपि। स च सततं स्वशिष्यान् पाठयति, ततः प्रसङ्गात् तत्रागतैः कैश्चिद्-धूर्तेः किञ्चित् तद्व्याख्यानलेशं श्रुत्वा, तल्लवमात्रतुष्टैः पण्डितम्मन्यैस्तैः स्वपूजार्थं तल्लवप्रक्षेपेण विरचिता निज-निज संहिताः, तत्र कैश्चिद् ग्रथितानि तदनुसाराणि कानिचित् स्वकल्पितान्यन्यवाक्यानि, कैश्चिच्च स्वल्पान्येव सवैद्य-वचांस्युपजीव्य ग्रथितान्यन्यापि भूयांसि