________________ 122 श्री हंसविजयविरचिते विरुद्धवाक्यानि, अन्यस्त्वतिपण्डितमानिभिः सवैद्यवचसां विपरीतान्येव वचांसि ग्रथितानि / इत्थं तेषु चिकित्सां कुर्वाणेषु नाना-रुचयस्ते पौरास्तेषामपि कूटवैद्यानां मध्यात् कश्चिदेव केषाञ्चित् चित्ते प्रतिभाति नाऽपरः / ततः प्रसिद्धिं गतास्ता: सर्ववैद्यशाला: पाठिताश्च तैः स्वशिष्याः निज-निज-संहिताः / तेऽपि चाटुतया प्राप्ता लोके महावैद्यख्यातिम् / ततो न लक्षयति कोऽपि पौरस्तं मौल-महावैद्यं, एवं सत्यपि स मौल: सवैद्यस्तत्-संहितास्तदध्येतारो विनेयास्तत्-परम्पराश्च ते सर्वेऽप्याश्रितजनानां रोगोच्छे दायैव बभूवुः तथा ये च कूटवैद्या याश्च तत्संहिता ये च तदध्येतारो विनेयास्तत्परम्पराश्च ते सर्वेप्यसत्-कल्पना मूलत्वादाश्रितलोकानां प्रत्युत रोगवृद्धये बभूवुः / अथ कदापि केषाञ्चित् तदाश्रितानामपि रोगातानवं रोगमोक्षो वा स्यात् तत् तु. तत्-संहिता-मध्यग्रथितानां सवैद्यवचसामे-वाऽनुभावो न पुनस्तत् कल्पितानां विरुद्धवचसामिति / यैश्च दुर्बुद्धिभिः सर्वथा सद्वैद्य-वचोविपरीता एव संहिता रचितास्तदाश्रितरोगिणस्तु सर्वथा रोगवृद्धिमेव लभेयुरिति / वैद्यकथाया उपनयः अत्रापनयोऽयं संसारो नगरं, रोगिणो भवजन्तवः , सर्वज्ञः सवैद्यः, सिद्धान्तस्तत् संहिता कर्मरोगापहन्त्री, कुतीर्थिकाः कूटवैद्याः, तच्छास्त्राणि कूटसंहिताः / एवं सति स्वल्पा एव ये केऽपि भाविभद्रा भव्या सर्वज्ञसद्वैद्यवच:प्रतिपद्यन्ते तेषां कर्मरोगात् मोक्षो निश्चित एव / ये चाऽधन्यतया कुतीर्थिक-कूटवैद्यसेवा-परा, न तेषां रोगमुक्तिः, किन्तु विपरीताचरणात् प्रत्युत रोगवृद्धिः स्यात् / यच्चाऽन्यतीर्थिकेष्वपि कदाचित् क्वाऽपि साङ्ख्यादिष्वास्तिकेषु कर्मतानवं मुक्तिर्वा दृश्यते, तत्. तु तन्मतग्रन्थग्रंथितानां सत्यसन्तोष-क्षमा-धृत्यार्वजादीनां सर्वज्ञ-वचसामेव माहात्म्यं न पुनस्तत्-कल्पितानां यज्ञहोम-पशुवधाधुपदेश-पराणां कूटवचसामिति परमार्थतो जिनशासनमेव कर्ममोक्षहेतुः। जिनशासनम् अन्यमताश्च / अथ ये च केवलं सर्वज्ञ-सवैद्यवचो-विपरीता एव चार्वाकादयो नास्तिकास्तदाश्रितानां त्वेकान्ततः कर्मवृद्धिरेवेति, तदेवं महाभाग ! शेषाणि सर्वाण्यपि शासनानि जिनभाषितादेव निर्गतानि तेनेदं जिनशासनं सर्वव्यापकमुच्यते, एवं च सति यत्किञ्चिदपि सत्या-ऽहिंसा-ब्रह्म-शौचेन्द्रियनिग्रहा-ऽऽकिञ्चिन्य-नैराश्य-तपो-ज्ञान-ध्यान देवगुरु-भक्त्यादिकं स्वभावसुन्दरं परतीर्थिकेषु दृश्यते, तद् याचितकमण्डनमिव कण्टकितरुषु कल्पतरुरिव, यत् कल्पितेषु याग-होमाधुपदेशकरेषु वाक्येषु मिश्रितं