________________ 120 श्री हंसविजयविरचिते. अतिविषाद, क्षीणप्रायमिदानीं ते तत्कर्म, कुरुष्व सदागमभक्तिम्, एतद्भक्तिरेव प्रायः सर्वदेहिनां तत्त्वज्ञानहेतुरि" त्यादिवचोभिः प्रवृद्धसंवेगा सा सदागमोऽयमेवेति बुद्ध्या पतिता भगवत्-समन्तभद्रसूरिपादयोः प्राह च- "समुद्धर उद्धर नाथ ! इदानीं मामज्ञानपङ्कमग्नामित्यादि। सुललितादीनां दीक्षा, अनुसुन्दरस्य सर्वाथसिद्धे गमनम् ततोऽतिभक्ति प्राग-भार-वश-क्षपित-भूरिकर्मजालायास्तस्या बालाया गुरुपादपतिताया एव जातिस्मरणमुत्पेदे / दृष्टः साक्षादिव मदनमञ्जर्यादिको वृत्तान्तः, ततोऽतिमुदिताऽनु-सुन्दरपादयोर्निपत्य प्राह- "तात ! जातः त्वद्वचसि मे प्रत्ययो यतो जातजातिस्मृत्या साक्षादवलोकितो मया सर्वस्त्वदुक्तवृत्तान्तः, विरताऽस्मि साम्प्रतं संसारकारागृहात्, मूढाऽप्यहमनुगृहीताऽनेन भगवता भवता च / " अत्राऽन्तरे समागतौ सुमङ्गला-मगधसेनौ सुललितायाः पितरौ सपरिच्छदौ सुतामिलनोत्सुकौ, ततः सुललिता तौ प्रति व्रतानुज्ञामयाचत, तदाकर्णनोद्भूतशोकव्याकुलौ तौ दम्पती पुनः सुललितया नानोपदेशभङ्गिभिः प्रतिबोधितौ स्वयमपि व्रतादानोन्मुखौ बभूवतुः, ततः श्रीगर्भराजेन मगधसेननृपेण च स्वं स्वं राज्यमनु-सुन्दरचक्रिसुनवे पुरन्दरायाऽदीयत ततोऽनुसुन्दरादीनि तानि सप्ताऽपि महामह-पूर्वकं विधिना दीक्षितानि / श्रीसमन्तभद्रसूरिभिर्दत्ता च संवेग-वौराग्य-प्रवर्द्धनी देशना, तदनु.गुरुप्रमुखांस्तान् सर्वमुनीन् नत्वा यथागतं गताः सर्वेऽपि नरामरादयः / जातः प्रदोषस्ततो विहिताऽऽवश्यकादिकृत्येषु सर्वसाधुषु स्वाध्यायध्यानपरेषु अनुसुन्दरमुनिरपि ध्यानासक्तमनास्तस्यामेव निशि उपशमश्रेणिमारुह्योपशान्तमोहः स्वायुः समाप्यौदारिकदेहपञ्जरं विहाय सर्वार्थसिद्धौ त्रयस्त्रिंशत्-सागरायुः सुरः समभवत्, ततः प्रगे विज्ञाततद्व्यतिकरेण श्रमणसङ्ग्रेन विहितस्तद्देहसंस्कारः, कृतो नरामरैरुत्सवः। ___ अथ धर्माचार्य-स्नेहेन सुललिता-साध्वी शोकपीडिता गुरुभिर्बभाषे- "आर्ये ! न शोचनीयो महात्माऽसौ यदनेनैकदिनमात्रेण नरकगमनोचितं पापं क्षपयित्वा सर्वार्थसिद्धिसुखमर्जितम्, अन्यच्च ततश्च्युत्वा पुष्करार्धभरते गन्धारनृपपद्मिन्योः पुत्रोऽमृतसारनामा भूत्वा यौवने विपुलाशयसूरिवचसा सदागम-सम्यक्त्वादीनुपलक्ष्य पितरावनुज्ञाप्य गुणधारणभवोक्तनीत्या क्षान्त्यादि-पाणिग्रहण-पूर्विकां भागवती-दीक्षां प्रपद्याऽनिदानतपः-संयमनिर्दूतसकल-कश्मलः केवलं लब्ध्वा शिवमाप्स्यति, ततः प्रमोदकारणमेवाऽस्य कृतकृत्यस्य पञ्चत्वमित्यादि वचोभिः शोकं त्याजिता सुललिता स्वात्मशुद्धयर्थं षष्टा-ऽष्टम-दशम-द्वादश-रत्नावली-कनकावली मुक्तावली-लघुसिंहनिष्क्रीडित