________________ 100 श्री हंसविजयविरचिते , गतस्तृतीय-देवलोके, तत्राऽपि मिलितौ मे सम्यक्त्व-सदोगमौ, शाश्वतजिनार्चादिद्रव्यस्तवमाराध्य दिव्यसुखमनुभूय च च्युत्वा नरत्वं प्राप्तः, पुनस्तत्राऽपि देशविरतिमनुपाल्य गतस्तुर्य-स्वर्गे, इत्थं सम्यक्त्व-सदागम-देशविरति-प्रभावाद् द्वादशसु कल्पेषु सुर-सौख्यान्यन्वभूवम् / तदन्तरं भवितव्यतया तद्भववेद्य-गुटिकां दत्त्वा प्रेषितोऽहं मानवावासपत्तने पुण्योदयान्वितः / इत्थं मोह-परिग्रह-श्रुतिसङ्गान् दुःख दायिनस्त्यक्त्वा, ज्ञात्वाऽपि च सद्दर्शनमेकान्त सुखप्रदमभजत // . इत्युपमिति-कथोद्धारे ___ मोह-परिग्रहश्रुतीन्द्रियादिविपाकवर्णनाधिकारः पञ्चमः // 5 //