________________ उपमितिभवप्रपंचाकथाद्धारे अधिकार -5 रन्यगुटिकामादाय सौधर्मकल्पे महर्द्धिकः सुरोऽभूवम् / तत्र जय जय नन्देत्यादि सुरी वचांस्याकर्ण्य दत्तज्ञानोपयोगो वैरोचनभवं व्यलोकयम्, पुनः प्रकटितौ सम्यग्दर्शनसदागमौ, ततः शाश्वताऽर्हत्बिम्ब-पूजा-जिनकल्याणकोत्सवादिद्रव्यस्तवमकार्षम् / किञ्चित् न्यूनसागरद्वयं यावद् दिव्यान् भोगान् भुक्त्वा गुटिका-क्षये ततश्च्युत्वा मानवावासे रेखा-मदनयोः सुतः कलन्दनामाभीरः समभवम् / प्रकृतिभद्रक-पापभीरुत्वादिगुणोपेतस्ततश्च्युत्वा ज्योतिषिको जातस्ततः सम्यक्त्व-सदागमाभ्यां त्यक्तः पुनर्मोहपरिग्रहाभ्यामाक्रान्तः पुनः ततश्च्युत्वा पञ्चेन्द्रियपशुसंस्थाने दर्दुरत्वं प्राप्तः, पुनर्भवितव्यतया बहुकालं यावत् नाना-रूपं कृत्वा विडम्बितोऽन्यदा नीतो मानवावासे / तत्र काम्पिल्यपुरे वस्तुबन्धुनृप-धराराज्योः पुत्रत्वेनोत्पन्नो वासव इति नाम दत्तं, क्रमात् प्राप्ततारुण्यः शांतिसूरिसविधे धर्ममाकर्ण्य सम्यक्त्व-सदागमौ प्राप्तः, पुनर्देवत्वं प्राप्याऽऽयुःक्षये पुनः काञ्चनपुरे नरत्वं प्राप्तस्तत्र प्रवृद्धौ मोह-परिग्रहौ, सम्यक्त्व-सदागमौ दूरं गतौ, पुनरहं भ्रान्तो बहुभवान् / एवमसङ्ख्यवारान् सम्यक्त्व-सदागमौ मदन्तिकमागत्यागत्य गतौ केवलः सदागमस्त्वनन्तशः समागत्यागत्य गतः यदा यदा तौ समीपमाजग्मतुस्तदा तदा मोहाद्या दूरं विलिल्यिरे, पुण्योदयश्च प्रकटीबभूव / यदा यदा च मोहाद्याः प्रबलीबभूवुस्तदा तदा च तो दूरं व्रजतुः पुण्योदयोऽपि च ननाश, इत्थमनन्तकालं सांसारिकसुख दुःखान्यनुभूयाऽनुभूयाऽन्यदा सौपारकपुरे शालिभद्रपल्याः कनकप्रभायाः कुक्षौ पुत्रत्वेनोत्पन्नस्तत्राऽहं विभीषणनामा प्राप्तयौवनः, कस्यचित् सूरेर्वचः श्रुत्वा सम्यक्त्व-सदागमौ प्राप्य द्रव्यतः श्रामण्यं प्रपन्नः / पुनः प्रबलीभूता मोहादयः सम्यग्दर्शनस्तु दूरं गतस्ततस्तीर्थकरनिन्दादिमहाशातनाः कृत्वाऽनन्तभवान् भ्रान्तः / . अथैवं नाना-भव-गहनविषमं संसारिजीवस्यवृत्तान्तं श्रुत्वाऽगृहीतसङ्केता सम्यगलब्ध-परमार्थत्वाद् विस्मयस्तिमितनेत्रा सती तस्थौ / अत्राऽन्तरे प्रज्ञाविशाला दध्यौ'अहह ! दारुणो भव-प्रपञ्च सुदुर्जयाः खलु मोहादयः / यतो नन्दिवर्धनादिभवेषु त्वदृष्ट सम्यक्त्वत्वाद्भवजन्तुं मोहादयः पीडयन्त्येव परं वैरोचनादिभवेषु तु लब्धसम्यक्त्वमप्येवं विडम्बयामासुः, ततोऽचिन्त्या शक्तिर्बत मोहादीनामित्यादि-विचारमग्ना यावदास्ते तावद् भव्यपुरुषः प्राह- "मातः ! किमेवं विस्मृतिं यासि ? सावधानीभूय निशामयाऽग्रेतनसम्बन्धमिति / " प्रज्ञाविशाला प्राह- "वत्स ! नाऽहं विस्मृतिं यामि, किन्त्वेतत्स्वरूप-विभावनैकतानाऽस्मीति / " ततः पुनः संसारिजीवः प्राह- "शृणु भद्रे ! तदनु भद्दिलपुरे स्फटिकनृपपुत्रो जातोऽहं विमलानन्द-नामा, यौवने सुप्रबुद्धसूरिवचसा .. सम्यक्त्व-सदागमावुपलक्ष्य श्रावकधर्मं गृहीतवान्, श्रावकत्वं प्रपाल्य गुटिका-प्रयोगेण