________________ श्री हंसविजयविरचिते ___ अथाऽन्यदाऽमात्यादिभिर्मियो मन्त्रयित्वा मां कुलकलङ्ककरं कारागारे क्षिप्त्वा स्थापितो मत्पदे मद्भाता नीरदवाहनः / अहं तु तत्र बुभुक्षा-पिपासादि-बाधितो दुःखशतान्यनुभूय तद्भववेद्यगुटिका-क्षये ततो मृत्वा गतः पापिष्ठनिवासायाः सप्तमे पाटके, तत्र त्रयस्त्रिंशत्सागराणि महादुःखानि भुक्त्वा निर्गतः पुनर्भवितव्यतया घूक-मार्जारगोधा-शरटादि-प्रायेषु नाना-हिंसकभवेष्वनन्तं कालं यावद् विनाटितः / अथाऽन्यदा मोहादिषु किञ्चिद् विरलीभूतेषु भवितव्यतयाऽवतारितोऽहं मानवावास-पत्तनस्य भरताख्यपाटके साकेतपुरे-नन्द-वणिजो गृहे धनसुन्दर्यास्तत्पन्याः सुतत्वेनाऽमृतोदरनामा क्रमेण प्राप्तो यौवनं, पुनस्तत्र सदागमो मदन्तिकमायातः, तद्वशात् सुदर्शन-साधुसमीपे शिक्षितो नमस्कारादिश्रुतं, ततः किञ्चिद् द्रव्यश्रावकत्वमाराध्य गुटिकाक्षये मृत्वा गतो. विबुधालयपुरम् / ___ अथ विबुधालये भवनपति-व्यन्तर-ज्योतिष्क-वैमानिकनिवासाख्याश्चत्वारः पाटका: सन्ति, तत्र प्रथमो दश, द्वितीयोऽष्टधा, तृतीयः पञ्चधा, तुर्यस्तु द्वादश-चतुर्दशप्रभेदकलितो द्विधाऽस्ति, तत्राऽहं तु प्रथम एवा पाटके द्वयर्धपल्योपमायुर्देवत्वेनोत्पन्नः, पुनस्ततश्चयुत्वा मानवावासनगरे बन्धुदत्त-वणिग् गृहे प्रियदर्शनायास्तत्पल्याः पुत्रत्वेन जातः, बन्धुरिति नाम दत्तं, यौवने सुन्दरनाम्नो मुनेः समीपे द्रव्यसाधुत्वं प्रपद्य मृत्वा व्यन्तरदेवो जातः / एवमनन्तं कालमनन्तान् नराऽमरतिर्यगादिभवान् भ्रान्तस्तत्र क्वचित् सदागमं, क्वचिद् द्रव्यश्राद्धत्वं, क्वचिद् द्रव्य-श्रामण्यं चाऽपि प्राप्य देवत्वं नरत्वं वा प्राप्तः। क्वचिच्च कुतीर्थिक-पाखण्डादिमतमासेव्य बहुभवभ्रमणमकार्षम् / इत्थं गतागत-परम्पराभिः किञ्चित् निर्मला जाता मे चित्त-वृत्त्यटवी, ततः स्वावसरं वीक्ष्य चारित्रधर्म-सद्बोधादीनाऽऽपृच्छ्य सम्यग्दर्शनाऽमत्यः प्रस्थितो मदन्तिकमागन्तुं सद्बोधस्तु विद्याकन्यां गृहीत्वा प्रस्तावे योग्यतां विज्ञायाऽहमागमिष्यामीति कृत्वा स्थितः / ___ अथाऽहं जनमन्दिरपुरे आनन्द-नन्दिन्योः सुतो वैरोचननामाऽभूवम् / तारुण्ये धर्मघोषसूरिदेशनां श्रुत्वा सदागमपरिचयमकार्षम् / ततोऽवगत-जीवा-ज्जीवादितत्त्वेन स्ववीर्योल्लासात्मया कर्मपरिणामप्रदत्ताऽपूर्वकरणाख्य कुठारेण कर्मग्रन्थिं विभिद्य विलोकितो सम्यग्दर्शनामात्यस्तदर्शनात् प्रकटितो मे आसंसारमननुभूतपूर्वः कश्चिल्लोकोत्तरः प्रमोदः, साक्षाल्लक्षितास्तदा शुद्धदेव-गुरु-धर्माः, विलीना मोहादयस्ततः श्राद्धधर्मोऽप्युपस्थितो, गृहीतानि मया कानिचिच्छावकव्रतानि, यच्च धनवाहनादिभवेष्वप्यकलङ्का'दिवचसा मया सदागम-श्राद्धत्वाद्याराधनं चक्रे, तत् तु श्रद्धानशून्यमेवेति / अत्र तु श्रद्धानसनाथमेतत्, एवं तत्र भवे सम्यक्त्वमूलं श्राद्धधर्ममाराध्य गुटिका-क्षये पुन