________________ उपमितिभवप्रपंचाकथाद्धारे अधिकार -5 97 - अथाऽगृहीतसङ्केते ! ममेवं लब्धश्रावकत्वं वीक्ष्य तुष्टोऽकलङ्कमुनिः / पुनरत्रान्तरे भवितव्यता-वशात् माया-सागराभ्यामालिङ्गितोऽहं, तदनुभावाच्चिन्तितं 'यदहो ! अकलङ्कमुनिरयं द्रव्यस्तवोपदशात् प्रचुरं वित्तव्ययं मेऽकारयत् कारयित च, तत् केनचिदुपायेनैनं विहारयामीति' ध्यात्वाऽकलङ्कं प्रति मयोक्तं- "स्वामिन् ! भवता शोकपङ्कादुद्धृतोऽहं श्रुतदानेनाऽनुगृहीतश्च / ततः साम्प्रतं पूर्णो मासकल्पः, क्रियतां सुखेन विहारकर्म, नो चेदस्मान् गुरव उपालभिष्यन्ते इति'' ततो ज्ञातमदीयकपटाभिप्रायोऽकलङ्कमुनिर्विजहार / तद्-गमनानन्तरमेव विस्मृतो मया सदागमः, स्फुरितं च मोह-परिग्रहाभ्यां, पुनस्तथैव महारम्भ-महापरिग्रहासक्तं मां श्रुत्वाऽकलङ्कमुनिना पुनर्मत्प्रतिबोधार्थमापृष्टाः सूरयः प्रोचुः- "हे मुने ! नाऽसौ धनवाहनस्त्वदुपदेशशतेनाऽपि प्रतिबोधं लप्स्यते, ततो बधिरस्य कर्णजापवदन्धस्य नृत्यदर्शनवद् उखरभूमेः कर्षणवदस्य प्रतिबोधन-श्रमो निष्फलो भविता" इति श्रुत्वा पुनरप्यकलङ्कमुनिना प्रतिबोधोपाये पृष्टे गुरवः प्रोचुः- "सम्यक्त्वामात्यस्य सुतां विद्याऽभिधां कन्यां यदा धनवाहनोऽयं परिणेष्यति तदा मोह-परिग्रहौ त्यत्क्वा प्रतिबोधयोग्यो भविष्यति / तत्-कार्यं तु कर्मपरिणामकालपरिणत्याद्यधीनं काले भविष्यति, ततः साम्प्रतं कृतमेतच्चिन्तया, साधय साधो! स्वार्थमेवेति" गुरुवचसाऽकलङ्कमुनिर्मामुपेक्षते स्म / मोहाधीनस्य भवजन्तोः भवभ्रमणम् / . अथ शृणु भद्रे ! पूर्वं रिपुदारण-भवमध्ये विचक्षणसूरि चरित्रावसरे चित्तवृत्त्यटव्यां चित्तव्याक्षेप-मण्डपे स्थितं समस्तं मोहसैन्यं विमर्श-प्रकर्षाभ्यां यद्-वर्णितमभूत् तत्सर्वमप्यागत्य मत्पार्श्वे स्थितं, ततो महामूढतानुभावात् संसार एवाऽऽसक्तो वम् / मिथ्यादर्शनवशाद् धर्मबुद्ध्या पापकर्माणि अकार्षम्, इष्टेषु शब्दादिविषयेषु रागवानभूवम् / अनिष्टेषु च द्वेषमधार्षम् / इत्थं मिथ्याभिमान-धनगर्व-हर्ष-विषादादयोऽपि स्व-स्वविषये वीर्यं स्फोरयामासुः / षोडशाऽपि च कषाया भृशं दिदीपिरे, दुष्टाभिप्रायेन युक्ते आर्त्तरौद्रध्यानेऽनिशं समाश्लिष्ये चतस्रस्तु ज्ञानावरणादयः सप्ताऽपि नृपा प्रवृद्धौजसो मामावृत्य तस्थुः / ततः कामदेवोऽपि रति-विषयाभिलाष-भोग-तृष्णा-पञ्चेन्द्रिया-दिपरिवारान्वितो मां भृशं व्यडम्बयत्, तद् वशाद् गृहीता मया बलात्कारेण परयोषितः, तीव्राभिलाषेण सेविता: पञ्चाऽपि विषयाः, सेवितानि द्यूत-मृगयादीनि सप्ताऽपि व्यसनानि, पीडिताश्वातिकठोरदण्डेन समस्ताः प्रजाः एवंविधमहानर्थकारिणं मां विलोक्य दूरं गतो मे पुण्योदयस्ततो विरक्तो मयि सर्वोऽपि राजवर्गः प्रजालोकश्च /