________________ अथ षष्ठोऽधिकारः गुणधारणस्य मदनमञ्जर्या सह लग्न : / / अथाऽग्रतः शृणु भद्रेऽगृहितसङ्केते ! सप्रमोदाख्यपुरे मधुवारणनामा नृपः, सुमालती तद्राज्ञी, तस्याः कुक्षावतीर्णोऽहं समये जातः पुण्योदयान्वितः पितृभ्यां गुणधारण इति ममाऽमिधा चक्रे / तत्रैव पुरे विशालनामा मत्-पितुर्वयस्योऽस्ति, तत्पुत्रः कुलन्धराभिधस्तेन सह बाल्यादेव मे मैत्री बभूव / क्रमेण शिक्षितावावां कलाचार्यान्तिके कलाः प्राप्त-तारुण्या-वेकदाऽऽह्लादमन्दिरोद्याने क्रीडार्थं गतौ, तत्रैका स्वरूपसौन्दर्याऽधरीकृतसुरीनिवहा काचिदङ्गना सख्या सह सञ्चरन्ती दृष्टा, तद्पाऽऽक्षिप्तचित्तोऽहं तरलदृशा पुनस्तदभिमुखमपश्यम् इति, साऽपि मयि जातानुरागा मुहुर्मुहुर्मन्मुखे सविकारं कटाक्षानक्षिपत / तत: कुलन्धरेण सविकारं मां मत्वा मन्मुखे दृष्टिः कृता, तल्लजितोऽहमाकारगोपनं कृत्वा कुलन्धरेण सह गृहमायातः, परं तदाक्षिप्त-चित्तत्वादनेक-विकल्पाकुलस्य मे क्वापि रतिर्न बभूव। कृच्छ्रेणेत्थं युगप्राया सा रात्रिर्गमिता / प्रातर्मया कुलन्धरं प्रत्युक्तं- "मित्र! व्रजामः साम्प्रतं तद्वनमिति," ततः सस्मितं कुलन्धरः प्राह- "मित्र ! जानाम्यहं ते सर्वं कुचेष्टितमिति," ततो मयाऽपि सद्भावमावेद्य प्रोक्तं- "मित्र ! यदि सा परिणीता भविष्यति तदा तु तां परस्त्रियमुच्छिष्टप्रायामनर्थखानिं स्वप्नेऽपि नेच्छामि, यदि च कन्या भविष्यति तदा तूपायशतेनाऽपि तामुहिष्यामि / तत्-निर्णीयते तत्र गत्वेति गतौ तत्रोद्याने समन्ताद, विलोकिता सा न दृष्टा क्वाऽपि, ततो जातोऽहं भृशं दुःखातः, कुलन्धरोऽपि च यावदित्थं तच्चिन्तापरावेकस्य तरोस्तले स्थितौ स्तस्तावदेका स्त्री तत्राऽऽऽगत्याऽऽशिषं दत्त्वा कुलन्धरं रहस्याकार्य प्रोवाच- "अहो! सुभग ! वैताढ्यगिरौ 'गन्धसमिद्धपुराधीशः कनकोदरनामा खेचरचक्री, तत्-प्रियाऽहं कामलता / आवयोरनेकोपयाचितैरायाता सकल-कलाविलास-सदनमेका मदनमञ्जरी नाम्नी सुताऽस्ति / अन्यदा तामुत्कटयौवनां वीक्ष्याऽनुरूपवरप्राप्ति-चिन्तातॊ नृपः क्वाऽपि योग्यं वरमपश्यन् स्वयंवरणमण्डपं कारयित्वा सर्वखेचरनृपानमेलयत् / अथ तेषु प्रत्येकं प्रत्येकं निरीक्ष्यमाणेषु नैकोऽपि तस्याः कन्यायाश्चित्तं समाचकर्ष / ततः सा विषण्णा सती पुरुष द्वेषिणी भूत्वा स्वमन्दिरं ययौ / राजानोऽप्यहोऽवगणिता वयमिति द्वेषं वहन्तो यथागतं