________________ उपमितिभवप्रपंचाकथाद्धारे अधिकार -5 95 रागकेशरि-सुतं सागरस्यानुजं परिग्रहनामानं सहादाय स्वयं मम पार्श्वे आजगाम / मयाऽपि तौ पूर्वपरिचयादतिस्नेहास्पदीकृत्य रक्षितौ / __ अत्राऽन्तरे मत्-पिता जीमूतनृपः परलोकं ययौ, ततस्तस्यौर्ध्वदेहिकं विधाय जातोऽहं नृपः, प्रवर्त्तिता स्वाज्ञा / अथ सदागमो मां प्रति “अनित्यमेतत् सर्वं पौद्गलिकं धनयौवन-राज्यादिकं क्षण-क्षयित्वात् नाऽत्र मोहः कार्य" इत्यादिशति / मोहस्तु "भुक्ष्व विषयान् मनोऽभीष्टान्, केन दृष्टः परलोकः? क्व सन्ति पुण्यपापादीनि ? यदाहुश्चार्वाका: पिब खाद च चारुलोचने !, यदतीतं वरगात्रि ! तन्न ते / न हि भीरु ! गतं निवर्त्तते, समुदयमात्रमिदं कलेवरम् // 1 // [ ] तथा आलिङ्गनं भुञ्ज निपीडत बाहुमूलं, भुग्नोन्नतस्तनमनोहरमायताक्ष्याः भिक्षोपवास-नियमार्कमरीचिदाहै होपशोषणविधिः कुधिया क्व वैषः? // 1 // [ ]" इति नास्तिकमते प्रेरयति / तथा परिग्रहोऽपि कोशादिवृद्ध्यर्थं प्रेरयति, इत्थं तेषां त्रयाणामपि पृथक् पृथक् वाक्यानि आकार्ष्याऽति-परिचयवशात् मोह-परिग्रहयोर्वचः प्रमाणीकृत्य सदागमवचोऽवाजीगणम् / ततः प्रभृति मुक्तं मया नमस्कार जाप-देवार्चादिसुकृतानुष्ठानम् / ततः पुनर्ज्ञानावरणनृपोऽप्यागत्य मामाश्रितः, सदागमस्तु कुमित्रासक्तं मामयोग्यं मत्त्वा दूरं गतः, ततः सुपात्रदान-सङ्घार्चा-साधर्मिकवात्सल्यादि सर्वं परित्यज्य केवलमर्थकोमलुब्धोऽभूवम् / अन्यदाऽकलङ्कादि-बहुशिष्यपरिवृताः श्रीकोविदसूरयस्तत्राऽऽजग्मुः। अकलङ्क-दाक्षिण्यादहं वन्दनार्थं गतस्ततो मां मोह-परिग्रहासक्तं त्यक्तसदागमं वीक्ष्याऽकलङ्ककेन मत्प्रतिबोधार्थं प्रेरिता गुरुवो, देशनायां स्वचरित्रकथनेन सदागमं वर्णयाञ्चक्रुः। कोविदसूरि-आत्मकथा, सदागमस्वरूपम् / ____ तथाहि- भूतलनगरे मलनिचयो नाम राजा, तस्य मलानुभूतिः पत्नी, तयोः कोविदबालिशौ द्वौ पुत्रौ, तन्मध्ये कोविदस्तु जातिस्मृति-बलात् पूर्वपरिचितं सदागमं समुपलक्ष्य परमाभीष्टबुद्ध्या सेवते, बालिशायाऽपि सदागम-गुणान् कथयति परं स न मन्यते / अथाऽनयोः कर्मपरिणामनृपेण पूर्वजन्मनि श्रुतिनाम्नी कन्या परिणायिताऽभूत् साऽन्यदा सङ्गदासाऽन्विता प्रेषिता, ताभ्यां च स्वदेह-नामपर्वतस्य मस्तकाव्यशिखरस्थिताऽपवरक-द्वयमध्ये रक्षिता / सङ्गदासस्तु कोविदेन सदागमवाक्यादधमोऽयमिति ज्ञात्वा