________________ श्री हंसविजयविरचिते संसारिजीवपार्श्वे सदागमस्य आगमनम् / . अथाऽत्राऽन्तरे यदभूत् तदुपयोगं दत्त्वाऽऽकर्णयाऽगृहीतसङ्केते ! पूर्वं वामदेवभवे बुधसूरिचरित्रमध्ये धिषणाङ्गजेन विचारेणोक्तमभूत् यत् संयमघातनवैराच्चारित्रधर्ममोहराजयोर्युद्धं बभूव। ततो मोहराजेन पराभूतश्चारित्रधर्म पलाय्य जैनपुरं प्रविष्ट इति। तदनु स्वपराजयदुःखितेन चारित्रधर्मेण सद्बोधमन्त्री कर्तव्योपायं पृष्टः सन्नुवाच"स्वामिन् ! न कश्चिद् विषादो विधेयो, यतः संसारिजीवोऽस्माकं स्वामी स यावदस्माकं दूरे भविता तावदेव वयं रिपुभिः पीड्यामहे / किञ्चेदानीं तु चित्तवृत्त्यटवी मनाक् स्वच्छावलोक्यते, ततो जानेऽहं सोऽस्मत्-स्वामीनः समीपे भविष्यति, ततः कर्मपरिणामनृपमापृच्छ्य कश्चिन्मनुष्यस्तदन्तिके प्रेष्यते यतस्तस्य बहुशो गतागतादि-परिचयेन सोऽस्मान् सम्यगुपर्लक्षिष्यति" इति सद्बोधवचोऽङ्गीकृत्य चारित्रधर्मेणोक्तं- “मन्त्रिन् ! सम्यग्दर्शन-महत्तमः सदागमश्चैतौ द्वौ सन्नीतिनिपुणौ तत्समीपे प्रहीयते / " तदा पुनः संबोधेनाभिहितं- "स्वामिन्निदानीं नाऽवसरः सम्यग्दर्शनस्य, ततः पूर्वं सदागमः प्रहीयते, यदा चाऽसौ सदागम-वचसाऽस्मद्विषये रागवान् भवति तदनन्तरं समये सम्यक्त्व-महत्तमोऽपि प्रेषितव्यस्तदिदानीं तु सदागम एव तत्र प्रेषणोचित इति कृत्वा कर्मपरिणाममापृच्छ्य मां धनवाहन-भवस्थितं मत्वा सदागमों मदन्तिकं प्रेषितः / तदा सदागमः समागत्य मदन्तिके स्थितः / ___अथ शृणु भद्रे! सदागमस्य सान्निध्यानुभावात् तत्-षष्ठ-साधूक्तवार्तामाकाऽकलकोक्तं भावार्थं च सम्यगवबुध्य प्राप्तं मया श्रुतज्ञानं, जातश्चाऽऽह्लादमयः / ततोऽकलङ्को मां सदागमाश्रितं मत्वा प्रहृष्टः पुनः सर्वसाधुनायकं कोविदसूरिनामानं सप्तमं महानुभावं प्रणम्य धर्मं पप्रच्छ, गुरुणा सविस्तरं धर्मस्वरूपं कथितं, तच्छ्रुत्वाऽकलङ्केन मां प्रत्युक्तं"भ्रातः ! धनवाहन ! अस्य महानुभावस्य समीपे सदागमः सामस्त्येन परिवसति, ततो यद्येतन्मुखात् किञ्चिदपि श्रुताभ्यासं कुर्यास्तदाऽहं हृष्यामीत्यकलङ्कानुरोधात् पठितं मया किञ्चिन्नमस्कारादि-श्रुतं, क्रमेण किञ्चिद् द्रव्यश्रावकमार्गाभिज्ञोऽपि जातः। अकलङ्कस्तु जातिस्मृत्या प्राप्तपरमवैराग्यः पितरावनुज्ञाप्य श्रीकोविदसूरिसन्निधौ संयममाददे / .. संसारिजीवपार्श्वे मोहपरिग्रहागमनम् * अथ सदागमाधिष्ठितं मां वीक्ष्य क्षुब्धो ज्ञानावरणनृपो महामोहसमीपे गत्वा भवजन्तुः सदागमेन सह मिलितोऽस्तीत्यादि-वार्ता न्यवेदयत्, तदाकर्ण्य क्रुद्धो मोहराजः जाताश्च रागद्वेषादि-तस्सैनिका रोषातुराः / अथ मोहराजो रणोद्यतान् सर्वसैनिकान् निवार्य स्वपौत्रं 1. लक्षयति-D L1.