________________ 93 उपमितिभवप्रपंचाकथाद्धारे अधिकार -5 पञ्चेन्द्रियरूप-गवाक्ष-द्वारा निर्गत्य रौद्रध्यानरूपाऽग्निकुण्डे, आर्तध्यानरूप-महाऽवटे वा निपतति, अन्यच्चाऽस्य देहापवरकस्य पञ्चष्विन्द्रियगवाक्षद्वारेष्वेकैको विषयरूप विषयवृक्षोऽस्ति, ततो यदा यदा तं विषयवृक्षमाजिघ्रति, पश्यति, आस्वादयति, स्पृशति, स्मरति वा तदा तदा एतत् तद्विषमूर्च्छितं महापदं लभते, तत् तेभ्यो विषवृक्षेभ्यो दूर एव रक्षणीयमिति / " __ अत्राऽन्तरालेऽकलङ्ककेनोक्तं- "स्वामिन् ! सुष्ठु निवेदितमेतन्मनोमर्कटरक्षणं यतो भवान्तरे ममाऽपीत्थमेव गुरुभिर्मनोमर्कटरक्षणं निवेदितमभवदिति" उक्त्वा जातिस्मृतिस्मृतः पूर्वाभ्यस्त-चारित्रमार्गः सर्वोऽपि मुनेः पुरः प्रकाशितः, मुनिनाऽपीत्थमेवैतदिति प्रमाणीकृत्य पुनरुक्तं- "शृणु महाभाग! यत् पुनरपि मद्गुरुणोक्तं-तथाहि-देहापवरके - स्मिन् कृष्ण-नील-कापोताख्या-स्तिस्रो दास्यः सन्ति, तास्तु मनोमर्कटस्य दुःखादायिन्यः सन्ति, यद्यस्यैताः परिचारिकाः क्रियन्ते तदा त्वेतन्मर्कटं सर्वोपद्रवास्पदं भवति, तथा तेजः-पद्म-शुक्ललेश्याख्यास्तिस्रस्त्वेतस्य हितकारिण्यः सन्ति, तदेता एवास्य रक्षणे नियोक्तव्याः / मनोमर्कट रक्षणोपायाः / अथैताभिरेव शिवालयमठाधिरोहाऽर्थं देहापवरके परिणामनामा एको दर्दरः कृतोऽस्ति, तदुपर्येताभिरेवाऽध्यवसायस्थानकाऽभिधान्यसङ्ख्यानि सोपानफलकानि कृतानि सन्ति / ततः प्रथम-लेश्या-त्रयकृतसोपान-श्रेणीमधिरोहतोऽस्य मर्कटस्य विविधोपद्रवाः पराभवन्ति / तदुपरि च तेजोलेश्यादिकृतसोपानक-पक्तौ यथा यथोर्ध्वमारोहति तथा तथा निविर्त्ततेऽस्य विषयविषावेग-चापल्यं, क्षीयते च सर्वेऽप्युद्रवाः / धर्मध्यानरूप शीताऽनिलस्पर्शात्तनूभवन्ति, पूर्वोत्पन्नाः कर्मरोगाः / पुनस्तत्र शम-दम-सन्तोष-संयमसबोधादि-वानर-शोभितं, धृति-श्रद्धा-सुखासिका-विविदिषा-विज्ञप्ति-स्मृति-बुद्धिक्षमादि-वानरीभिः कलितं, धैर्य-वीर्य-शौर्य-गाम्भीर्य-ज्ञान-दर्शन-तपः-सत्याद्यनेकलघुमर्कटाकीर्णं, विशुद्ध-धर्माख्येनैकेन महावानरेण सुरक्षितं महदेकं वानर-यूथं सङ्गच्छति। तेन सङ्गतमेतन्मनोमर्कटमपि त्यक्तोपद्रवं शुक्लध्यान- रूप-चन्दनच्छटाभिरपगत-कर्मरोगं सुखेनोच्चैः सोपानमधिरोहति / तदेवमुक्तमार्गेण मनोमर्कटे यत्नेनोच्चैः पदं प्रापिते तेन सह त्वमपि तत्स्थानमारोक्ष्यसि / ततो मनोमर्कटं तद्द्वानरयूथं च तत्रैवोन्मुच्य शैलेशीकरणाख्योत्पातेनोत्प्लुत्याऽनन्तानन्दमयं शिवालय-मठं व्रजेरिति गुरूक्तमार्गेण साम्प्रतं मनोमर्कटरक्षणं करोमीति" श्रुत्वाऽकलङ्केनानुग्रह-बुद्धया सम्यक् तद्भावार्थं प्रबोधितोऽहम् /