________________ * श्री हंसविजयविरचिते दर्शन-चारित्रादीनि रत्नानि, जिनोक्तधर्मः प्रवहणं, मुक्तिर्महानन्दपुरं, कर्मपरिणामो नृपः। ततश्चारुस्थानीयाः साधवस्तत्त्व-ज्ञानेन ज्ञानाद्यर्जयित्वा जिनधर्माश्रयात् मुक्तिं लभन्ते / तथा योग्यस्थानीयाः श्रावका विषयप्रमादाद्यासक्ता अपि साधु-वचसा तत्त्वज्ञानमवाप्य तदासङ्गं हित्वा ज्ञानाद्यर्जयित्वा कालेन महानन्दमप्याप्नुवन्ति / ये च प्रकृति-भद्रकास्ते तु हितज्ञस्थानीयाः विषयाद्यासक्ताः कदाचित् कथञ्चिद् विहित-धर्मोद्यमा अपि कुतीर्थविप्रतारिता सत्यज्ञान-विकला कुधर्ममर्जयित्वाऽप्यकृतकृत्याः पुनः कदाचिदपि साधुवचसा तत्त्वज्ञानमवाप्य भूयसा कालेन स्वार्थं साधयन्ति / ये चाऽभव्या दूरभव्याश्च ते तु मूढस्थानीयाः केवलं विषयाद्यासक्ता व्यसनाद्यधीनतया-ऽकार्यशतानि कुर्वन्ति, हितोपदेष्टारं च द्विष्यन्ति, ते पुनः कर्मपरिणामनृपेण दुस्तरे संसारसागरे क्षिप्यन्ते। यद्यप्येषां कदाचित् कथञ्चिद् द्रव्यसाधुत्वं द्रव्यश्रावकत्वं वा सम्पद्यते तथापि तत्त्वाऽश्रद्धानात् केवलं भवाभिनन्दित्वाच्च मोक्षरूप-पुरुषार्थं न साधयन्तीति" भावार्थं श्रुत्वा किञ्चिलब्ध-परमार्थोऽहं क्षणमात्रं तदास्वादमास्वाद्य पुनः शून्यचित्त इवाऽतिष्ठम् / संसार-हट्टश्रेणिस्वरूपम् ततो गतावावां षष्ठमुनिपार्श्वे, प्रणम्याऽकलङ्केन पृष्टं तद्वैराग्यकारणं, मुनिनोक्तं"हट्टश्रेणिदर्शनं मे वैराग्यकारणम् / " पुनरकलङ्केन भावार्थं पृष्टः स प्राह- "शृणु महाभाग ! संसारनगरे जन्म-परम्परा-हट्टश्रेणिस्तत्र भवजन्तवो वणिजः, सुख-दुःखभेदभिन्नानि नाना-क्रयाणकानि पुण्य-पाप रूप-निष्क्रयाभ्यां क्रमाल्लभ्यन्ते / इत्थं क्रयं विक्रयं च कुर्वन्तः केचिल्लाभमर्जयन्ति, केचिच्च नीवीं धारयन्ति, केचिच्च प्रत्युत नीवीमपि हारयन्ति। तत्र पुरे महामोहो दुर्गपालः काम-कोपाद्याश्च तत्सेवकास्तेऽकारणमपि लोकान् विडम्बयन्ति / अहमपि तत्र वणिगभवम्, एकदाऽनेन मद्गुरुणा सम्यक्त्वयोगाञ्जनप्रयोगेण मार्ग प्रदर्श्य नीतोऽहं स्वमठे, ज्ञापितं च हट्टश्रेण्या असारत्वं, ततोऽनन्तसुखास्पदशिवालय-वर्णिकां दीक्षां दत्त्वा पञ्चेन्द्रियरूप-गवाक्ष-पञ्चकोपेतदेहाऽपवरकमध्ये मनोमर्कट मे दर्शितं, पुनरनेनोक्तोऽहं- 'वत्स ! एतन्मर्कटं त्वया यत्नेन रक्षणीयं सुरक्षितमेतत् तव महानन्दाय भविष्यति, ततो यथैतत्-कषाय-मूषकैर्न दृश्यते, नोकषायरूपैर्वृश्चिकै!त्पीड्यते, आहार-संज्ञादि-मार्जारीभिर्न पराभूयते, राग-द्वेषाभ्यां कोलोंदुराभ्यां नोपद्रूयते, महामोहरूप-वन-बिडालेन न भक्ष्यते, परीषहरूप-दंशमसकैर्न तुद्यते, दुष्टाभिप्रायादिमत्कुणैर्न व्यध्यते, चिन्तारूपगृहगोधादिभिर्न व्याकुलीक्रियते, प्रमादशरटैर्नाभिभूयते, अविरतिरूप-षट्पदीभिर्न विडम्ब्यते, यथा च मिथ्यात्वतमसा नाऽन्धीक्रियते तथा रक्षितव्यं, यतः पूर्वोक्तोपद्रवरुपद्रुतं सद् एतद् वेदना-व्याकुलं