________________ उपमितिभवप्रपंचाकथाद्धारे अधिकार -5 91 मिथ्यात्व-कषाय-योगाभिध-पञ्चमानुषाणि कुटुम्ब, यद्यप्येतद्वैरिभूतं तथापि मोहवशाजीवा हिततया मन्यन्ते, तद्वत्तेन कर्मरूपभोजनेन स्वभाव-विकलीकृता अनभिग्रह-मिथ्यात्व-सन्निपाताभिभूता एकेन्द्रियादिषु विविधं विचेष्टन्ते / केचिच्च दुष्टाभिनिवेशोन्माद-पीडिताः उत्सूत्रप्ररूपणरूपघर्घरादिभिर्विडम्ब्यन्ते, तदेवंविधोऽयं भवितव्यता-वशाद् गुरुणा वैद्येन सम्यक्त्व-भैषजप्रयोगेण सचेतनीकृतः, भाषितं च सर्वप्राणिनां कर्मोन्मादस्वरूपं, दत्तं च कर्माऽजीर्णाऽपोहनं संयमभेषजमिति तदकलङ्कोक्तं भावार्थं श्रुत्वा न किञ्चिदप्यहमवाधारयम्, सोपनया चतुर्वणिक्-कथा / . ततः पञ्चमस्य मुनेः पुरो गत्वा प्रणम्य पुनरकलङ्केन पृष्टं तद्-वैराग्यनिदानम् / स मुनिः प्राह-"शृणु नृपात्मज ! गुरूक्तां नाना-निदर्शनमयी-कथामाकर्ण्य प्राप्तवैराग्येण मया व्रतं गृहीतं; त्वमप्याकर्णय तां कथां तथाहि- वसन्तपुर-वास्तव्याः चारु-योग्यहितज्ञ-मूढनामानश्चत्वारो वणिजः सुदुस्तरं समुद्रमुल्लङ्ग्य रत्नार्जनार्थं रत्नद्वीपं प्राप्ताः। तत्र चारुः स्वयं रत्नपरीक्षा-निष्णातः सन्ततोद्योगयोगादर्जयन् भूयांसि बहुमूल्यरत्नान्युपार्जयत् योग्यस्तु रत्नपरीक्षां जानन्नपि क्रीडाविनोदासक्तत्वात् बहुकालक्षेपेन स्तोकस्त्नान्यर्जितवान्, हितज्ञस्तु स्वयं परीक्षां न जानाति क्रीडाद्यासक्तः स्वल्पोधमं च कुरुते, इत्थमसौ परीक्षामजानन् धूर्तादिभिः विप्रतारितः कांश्चित् काचमणीन् रत्नबुद्ध्याऽमेलयत् / मूढस्तु परीक्षां न वेत्ति, न च व्यवसायोद्यमं कुरुते, केवलं धूर्तादिभिः सम्भूय कालक्षेपमेवाऽकरोत् / ___अथ चारुः स्वल्पकालेन बहुरत्नान्यर्जयित्वा महानन्दपत्तने गत्वा महासौख्यमनु बभूव। योग्योऽपि चारुणा हितशिक्षां दत्त्वा रत्नार्जनाय प्रेरितः, कौतुकाद्यासक्तिं मुक्त्वा पुनर्विहितार्जनोद्योगः। कियता कालेनाऽर्जितरत्नसम्भारो महानन्दपत्तने गत्वा सुखं बुभुजे। हितज्ञस्तु बहुकालं यावत् काचमणीन् सगृह्य सङ्ग्रह्याऽपि निदाने काचस्वरूपे ज्ञातेऽकृतकृत्यतया विषण्णः सन् चारुणा कथञ्चिद्रत्नपरीक्षां शिक्षितः। पुनर्महोद्यमेन रत्नार्जनं कृत्वा महानन्दपुरं प्राप। मूढस्तु धूर्तादिसङ्गाऽऽसक्तत्वेन चारुशिक्षामकृत्वा नानाऽकार्याणि कुर्वन् तत्रत्य नृपेण विडम्बना-पूर्वकं क्षिप्तोऽपारसागरे सुचिरं दुःखभाग् बभूव / इत्येतां साधूक्तां कथामाकाऽकलङ्को मां प्रत्याह- शृणु बन्धो धनवाहन ! अस्या भावार्थ- सूक्ष्मनिगोदो वसन्तपुरं, तत्र चित्र-भवितव्यतया कृतयथार्थ-नामानश्चतुर्विधजीवास्ते चत्वारो वणिजः संसारविस्तरोऽपारपारावारः, नरभवो रत्नद्वीपः, विषयाः कौतुकस्थानीयाः धूर्ताः कुतीर्थिनः, कुधर्माश्च काचमणयः / तत्त्वज्ञानं रत्नपरीक्षा, ज्ञान