________________ 90 श्री हंसविजयविरचिते न किञ्चिच्छ्रद्दधौ, पुनर्गता तृतीयमुनिसमीपं, तमपि प्रणम्याऽपृच्छदकलङ्को वैराग्यकारणम्। संसार-अरघट्टदर्शनम् / मुनिरुवाच- "अरघट्टदर्शनमेव वैराग्यकारणमिति" पुनरकलङ्केन भावार्थे पृष्टे मुनिराह- "शृणु कुमार ! संसारोऽयमरघट्टस्तत्र राग-द्वेष-मनोभाव-मिथ्यात्वाऽभिधाश्चत्वारः कर्षकाः महामोहाख्यः स्वयं कृषिकपतिः / अथ तमरघट्ट घासपानीयाद्यनपेक्षाः कषायलक्षणाः षोडश बलीवर्दा नित्यं वहन्ति / हास्य-शोक-भयाद्याः कर्मकराः रत्यरत्याद्याश्च कर्मकार्यः, अविरति-जलापूर्णोऽसंयतजीवितव्यरूप: कूपो, जीवलोको घटीयन्त्रं, दुष्टयोग-प्रमादाभिधे द्वे तुम्बे, विलास-विभ्रमाद्या अरकाः, मरणाख्यै-र्घटीसङ्घट्टखाट्कारैरेष दूरादपि विवेकिभिर्वहन् विभाव्यते / मिथ्याभिमानाख्यं चाऽत्र दार्वटिकं आत्मनोऽज्ञान-मलिनता सा जलग्राहिणी प्रणालिका / सक्लिष्टचित्तरूपः खालः, भोगलालसा कुल्या, जन्मान्तराणि केदारपरम्परा / तत्र जीवपरिणामाख्यो वप्ता, कर्म-बीजानि वपति तान्यसद्ज्ञानाख्यः कर्मकरः पाययति, ततो दुःखरूपं शस्यं निष्पद्यते / अथैवंविधे क्षेत्रेऽहं सुप्तोऽभूवं, ततोऽनेन सूर्यप्रतिमेन मद्गुरुणा प्रबोध्य भाषितो 'यदहोऽनभिज्ञत्वमेवैतत् क्षेत्रोद्भवस्य दुःखरूपधान्यफलस्य भोक्ता भविष्यसि। ततः सावधानीभूय त्यज शीघ्रमस्यारघट्टस्य स्वामित्वं,' ततो जातवैराग्येण मया तन्ममत्व-मुन्मुच्य व्रतमाददे," इत्याकाहं तु शून्यचित्त एवाऽऽसम् / अकलङ्कस्तु परमवैराग्यमापन्नः / संसार-मठस्य वर्णनम् / 'पुनश्चतुर्थसाधं नत्वा पृष्टं तद्वैराग्यकारणम् / साधुरुवाच- "एकस्मिन् मठे छात्रा वसन्ति, अहमपि तत्र वसन्नभूवम्। अन्यदा मत्कुटुम्बभूतं मनुष्यपञ्चकं तत्राऽऽयातं, तत् तु साक्षात् वैरिभूतमपि मया हितकृदेव-गणितम्, एकदा तेन कुटुम्बेन साग्रहं सर्वे छात्रा भोजनं कारितास्तद्भोजनवशाद् वयं सर्वेऽपि जाताश्चैतन्यविकलाः प्रवृत्ताश्च नानाकुचेष्टाः कर्तुं प्रवृद्धः सन्निपातः, प्रकटिताश्च घर्घरगलरोधतापादयः / ततो भवितव्यता-बलेन तथाविध दुरवस्थो दृष्टोऽहमनेन महात्मना मद्गुरुणा भेषजदानेन सजीकृतश्च / पुनर्भाषितं च- 'यथैते वराका विषान्न-भोजनात् सर्वे कष्टमनुभवन्ति तथा त्वमप्यभूः, परं मया भेषजबलेन सावधानः कृतोऽसि, ततोऽद्य प्रभृति नैतत्कुटुम्बं विश्वसीः / अद्यापि किञ्चिदजीर्णजन्यः सन्निपातोऽस्ति, ततो मदुक्त-भेषजं सेवस्वेति' गुरुवचसा वैराग्याद् व्रतमाश्रितोऽहमिति एवं साधुमुखादाकाऽकलङ्को मां प्रति भावार्थमाह- "संसारोऽयं मठः, तत्र लोह-शलाका इवाऽन्योऽन्य-सम्बद्धाः सर्वे जीवाश्छात्राः / प्रमादाऽविरति