________________ 89 उपमितिभवप्रपंचाकथाद्धारे अधिकार -5 केचिन्नृत्यन्ति केचिच्च हसन्ति, केचित् क्रन्दन्ति, एवं मानाचेष्टाः कुर्वन्ति, तन्मध्येऽहमपि विविधं विचेष्टमानो-ऽभवं, मद्यपारवश्याच्च स्तेय-परदारहरणाद्यनेकानन्यायान् विदधन्, नाना-कष्टकदर्थना अन्वभवम् / __ अन्यदा ब्राह्मणैस्तथाविधं मां करुणापात्रं वीक्ष्य प्रतिबोधो दत्तः, महाप्रयत्नेन प्रतिबोध्य ब्राह्मणः कृतः, क्रमेण च श्रमणो जातोऽद्याऽपि च तन्मद्याजीर्णं मे विद्यत एव, परं गुरूक्तौषधसेवनात् तदपयास्यतीति मे वैराग्यकारणम् / " -- अथेमं वृत्तान्तं मुनिमुखादाकर्ण्य जात-वैराग्योद्रेकोऽकलङ्को जातिस्मृतिमवाप, अहं तु समीपस्थितोऽपि न किञ्चिदपि तत्त्वमवबुद्धः / ततोऽकलङ्केन पृष्टं- "भ्रातः! धनवाहन! ज्ञातस्त्वया कश्चिद्-भावार्थः?" मयोक्तं- "नाऽहं तु किमपि वेद्मि / " ततोऽकलङ्कः प्राह- "शृणु बन्धो ! संसारोऽयं महती मद्यशाला, तत्राऽनन्ता जीवा मद्यपा, अष्टविधकर्मसमुदाया मद्याङ्गानि, कषायास्तदासवाः, घाति-कर्मप्रकृतयो मद्यानि, आयुः पात्रं, देहाश्चषकास्ततः पीततन्मद्यास्ते विविधं चेष्टन्ते / एकेन्द्रियादि पञ्चेन्द्रियान्तभवेषु एकादि पञ्चान्तान् विषयान् यथासम्भवं सेवते / अथ तत्र त्रयोदशविधा लोका सन्ति / तथाहिप्रथमेऽसंव्यवहारसूक्ष्मनिगोदनामानः // 1 // द्वितीया व्यवहारबादरनिगोदाख्याः सूक्ष्मवनस्पतिकायाः // 2 // तृतीया पृथिव्यप्-तेजो-वायुबादरवनस्पतयः // 3 // चतुर्था द्वीन्द्रियाः // 4 // पञ्चमास्त्रीन्द्रियाः // 5 // षष्ठाश्चतुरिन्द्रियाः // 6 // सप्तमा असज्ञिपञ्चेन्द्रियाः // 7 // अष्टमा नारकाः // 8 // नवमाः सज्ञिपञ्चेन्द्रिय-तिर्यञ्चः // 9 // दशमा मनुष्याः // 10 // एकादशाश्चतुर्निकायदेवाः // 11 // द्वादशा ब्राह्मणा: साधव इत्यर्थः // 12 // त्रयोदशास्तुत्यक्तमद्या: सिद्धजीवाः // 13 // तत्राऽयं साधुः प्रथमलोकमध्येऽनन्तानन्तं कालमुशित्वा भवितव्यता-वशात् ततो निर्गत्य दशसु भेदेषु बहुधा विडम्बनामनुभूयाऽनन्तेन कालेन ततो निर्गत्य द्वादशभेदं चारित्राध्यवसायं प्राप्तस्ततः साधुभिः संसाररूपमद्यशाला-स्वरूपं सम्यक् प्रबोध्य दीक्षितः, शमौषधसेवनाद् घातिकर्मशेषलक्षणं मद्याजीर्णमपनेष्यतीति भावार्थः। शृणु अगृहीतसङ्केते ! इत्थं जातिस्मृतिवशात् लब्धतात्पर्यार्थेनाऽकलङ्केनाऽहं सम्यक् बोधितोऽपि