________________ अथ पञ्चमो अधिकारः पुनः सदागम-भव्यपुरुष-प्रज्ञाविशालानां समक्षं संसारिजीवोऽगृहितसङ्केतां सम्बोध्य कथयति / अथ शृणु अगृहगीतसङ्केते ! मानवावास-पत्तने साल्हादपुरे जीमूतो राजा, लीलावती च तद्राज्ञी, तस्याः कुक्षौ कर्मरूपगुटिकाप्रयोगेण भवितव्यतयाऽवतारितोऽहं, समये जातः पुण्योदयान्वितः, पित्रा महामहेन कृतं धनवाहन इति मन्नाम / अथ जीमूतनृपस्य नारदनामा कनिष्ठबन्धुरस्ति, तत्पत्नी पद्मावती, मजन्मावसरे तयाऽपि पुत्रो जातस्तस्य चाऽकलङ्क इत्यभिधा चक्रे, एवं आवां द्वावपि भ्रातरौ क्रमेण प्रवर्द्धमानौ जातावष्टवार्षिकौ, कलाचार्यान्तिके शिक्षितौ च शस्त्र-शास्त्रकलाः सकलाः, प्राप्तौ च क्रमेण तारुण्यं, अकलङ्कस्तु लघुकर्मत्वात् प्रकृत्या दयालुः, क्षमा-सत्य-सन्तोषादियुतः, परोपकारी गुणरागी चेत्येवमनेकगुणान्वितः, अहं तु निःस्नेहो हीनसत्त्वः परच्छिद्रापेक्षीत्येवं नाना-दोषाश्रयस्तथाऽप्यकलङ्को मयि निबिडस्नेहं वहति / ___ एकदाऽऽवां बुधनन्दनोद्याने क्रीडार्थं गतौ, तत्र मध्याह्ने एकं जिनप्रासादं वीक्ष्य घर्मापनोदर्थं स्थितौ, तत्राऽकलङ्क-साहचर्यात् मयाऽपि जिनदर्शनं कृतं, यावदावां बहिमण्डपमायातौ तावद् दृष्टास्तत्राऽनेके साधवो, विहिताऽष्टमीतिथ्युपवासाः, जिनवन्दनानन्तरं पृथक् पृथक् सिद्धान्त-स्वाध्यायं कुर्वाणाः / अकलङ्कस्तान् विलोक्य, नत्वा चैकस्य साधोः पुरो धर्मश्रवणार्थं स्थितस्ततोऽहमपि अकलङ्कानुरोधात् तत्रोपविष्टः / संसार-अग्नि स्वरूपम् अथाऽकलङ्केन स साधुः पृष्टः "स्वामिन् ! भवतः किं वैराग्यकारणम् ?, यतस्तारुण्य एव व्रतमनुष्ठितम् ?" तदा मुनिराह- "शृणु कुमार ! मे वैराग्यकारणम् ! अहं लोकोदरग्रामवास्तव्य: कुलपुत्रोऽभवं, तत्रैकदा रात्रौ प्रदीपनं लग्नं, प्रकटिताः कराला: ज्वाला:, धूमेनाऽऽच्छादितं समस्तं पुरं, जातो व्याकुलो वास्तव्यजनः, प्रवृत्तः स्त्री-बालकादीनां कोलाहलरवः, पङ्ग-अन्ध-क्लीबादयो दह्यमाना भृशमारटन्ति, मुष्णान्ति चौरा लोकसर्वस्वं, हृष्यन्त्यनेके धूर्त-लुण्टाकादयस्तदवसरे प्रबुद्धेनैकेन मान्त्रिकेणात्मीयवचःशक्त्या चत्वरे मण्डलमेकमालिख्याऽऽहूताः सर्वेऽपि पौरा: “अहो ! मण्डलमेतदाश्रयत, न भविष्यत्यत्र भवतां दाहदुःखलवोऽपीति," तदाकर्ण्य स्तोकाः केचित्