________________ श्री हंसविजयविरचिते देशनामाकर्ण्य यथाविधि स्वभावराज्य-पालनोन्मुखो हरिनृपः शार्दूलकुमारं राज्ये प्रतिष्ठाप्य, मयूरमञ्जर्यादि-अनेकस्वजनगणसहितो व्रतं जगृहे / अथाऽगृहीतसङ्केते ! अहं तु लोभ-मैथुन-परवशो भ्रमन्नन्यदा क्वापि वने गतस्तत्र सप्ररोहं बिल्वतरुमालोक्य धनाशया तद्भुवं खनितुं लग्नस्तावत् तन्मूलात् निर्गतेन भीषण-भुजङ्गेन दष्टस्ततस्तद्भव-वेद्यगुटिकाक्षये अन्यां गुटिका वितीर्य भवितव्यतया प्रेषित: पापिष्ठनिवासाया: सप्तमपाटके / तत्र महादुःखान्यनुभूय त्रयस्त्रिंशत्-सागराऽन्ते निर्गतः पुनरनन्तं कालं यावदेकेन्द्रियादि पुरेषु भ्रान्तो, भुक्तानि च तत्राऽनन्तानि दुःखानि। पुनः किञ्चित् प्रसन्नतया भवितव्यतया पुण्योदयं दत्त्वा समादिष्टो मनुष्यगतिनगरी प्रति, तत् तथेति प्रतिपद्य चलितोऽहमपि / ___एवं लोभस्य फलं, मैथुन-नेत्रेन्द्रियादि-सक्तेश्च सम्यक् समीक्ष्य सुधियः प्रयतध्वं तज्जयाय दृढम् / इत्युपमिति-कथोद्धारे लोभ-मैथुन-चक्षुरिन्द्रिय-विपाकवर्णनाख्यस्तूर्योऽधिकारः // 4 //