________________ उपमितिभवप्रपंचाकथाद्धारे अधिकार-४ समुद्धाताख्यः प्रयत्नो, निहन्तव्या योगाख्यास्त्रयो दुष्टवेतालास्ततः शैलेशी-नाम्नी वर्तनीमनुसृत्य गन्तव्यं निर्वृतिपुरे, एते सर्वेऽपि व्यतिकरा औदासीन्यनामकं राजपथममुञ्चत एव ते सम्पत्स्यन्ते, अन्यच्च तत्र गच्छता त्वया गृहीतव्या यथावस्थितसकलपदार्थसार्थदर्शिका समता-नाम्नी योगनालिका, तन्निवेशितदृष्टेः तव भविष्यति सकलपदार्थज्ञानं, ज्ञास्यसि च प्रतिपदं स्वयमेव यथोचितं कृत्यमित्यादिकां सिद्धान्तोक्तहितशिक्षामवधार्योत्तमस्तथैव प्रवर्त्तमानः क्रमेण मोहादि शत्रून् निहत्य कर्मपरीणामं पितरमपि निर्जित्य प्राप्तो निर्वृतिपुरं स्वराज्यसारभूतं, तत्र गतोऽसौ बुभुजे शाश्वतानन्दसुखं विशुद्धसंयमाराधकाः साधवो मोक्षक-बद्धकक्षा गणधरादयस्तेऽस्य निदर्शनम् / __ अथ षष्ठो वरिष्ठ-नामा कर्मपरीणामपुत्रो राजा जातस्तदागमे जाता हतौजसो मोहाद्याः, प्रकृष्टा-चारित्रधर्मादयो यद्यप्युत्तमस्येवाऽस्याऽप्यखिलो वृत्तान्त-स्तथाऽप्ययं विशेषः / यदस्य प्रागेव सिद्धान्तेन सह परिचय आसीत्, तदसौ सिद्धान्तमपृष्ट्वैव सर्वां राज्य-स्थितिमसाधयत्, अन्यच्चैतस्य गुणैराकृष्टा बहिरङ्ग-भूभुजो गणधरनामान: पदातिभावं भजन्ति, तेभ्योऽयमुपकारीति मत्वा सिद्धान्तं निरूपयत्यसौ / अथ ते गणधराः सिद्धान्तमुपलभ्य स्वशक्त्या तदङ्गोपाङ्गानि पुनः समारचयन्ति / इत्थमसौ सिद्धान्तो वस्तुतोऽजरामरोऽपि तदुपदिष्टतया लोके वरिष्ट-गर्भकालात् मति-श्रुता-ऽवधिलक्षणज्ञानत्रयकलितः कृतोऽयमिति किंवाऽयं भगवान् ख्यातिं याति किञ्चाजन्मत एवाऽतिशय-चतुष्टयोपेतो लोकोत्तरगुणगणनिधिः सर्वाद्भुतरूपसौभाग्य: सकलसुरासुरेन्द्रादिमहितः, व्रतानन्तरमेवोत्पन्नतुर्यज्ञानो घातिकर्माणि घातयित्वा प्राप्तकेवलज्ञानः 'कर्मक्षयोत्थैरेकादशातिशयैः सुरकृतैश्चैकोन-विंशत्यतिशयैः, अष्टभिः प्रातिहा: प्रकाशितत्रिभुवनसाम्राज्यः पञ्चत्रिंशद्गुणोपेतया योजनगामिन्या सार्वजनीनया वाण्या धर्ममुपदिशन् पावयति स्वविहारेण पृथ्वीतलं, ततोऽसौ भगवान् नाशयित्वा मिथ्यात्वतमः, कृत्वा च मुक्तिमार्ग सुप्रकाशं, स्थापयित्वा धर्मतीर्थं, पूर्वोक्तक्रमेण निर्वृतिपुरी प्राप्तो भुञ्जते शाश्वतानन्तस्वसाम्राज्य-सुखमिति / एतन्निदर्शनं त्वतीतानागतवर्तमानकालभाविनस्तीर्थकरा एवेति / अथेत्थं षट् पुरुषदृष्टान्तश्रवणादप्यलब्धपरमार्थोऽप्रबुद्धः सिद्धान्तगुरुणा विचारसहचरं दत्त्वाऽन्तरङ्गपुरेषु प्रेषयित्वा षण्णामपि राज्यस्थितिं साक्षाद् दर्शयित्वा प्रबोधित-स्तदेवं नराधिप ! यथा निकृष्टाऽधमविमध्यमानां दुष्पालितं राज्यं केवलं परमदुःखाय, भवत्, मध्यमस्य पालनाभिमुखत्वात् स्वल्पदुःखाय उत्तमवरिष्ठयोस्तु सुपालितं सदनन्तसुखायैवाऽभवत् तथा सर्वेषामपि जीवानां स्वराज्यमेव सुपालितं सुखाय, दुष्पालितं च दुःखाय स्यादिदमेव च प्राणिनां नानात्वकारणमित्यादि