________________ 84 श्री हंसविजयविरचिते निवृत्तिपुरिगमनमार्गः अथाऽनेनाऽन्यदा स्वराज्यावास्युपायं पृष्टो यथार्थवादी सिद्धान्तनामा महत्तमः प्राह'महाभाग ! घटत एव भवविरक्तस्य विषयविमुखस्य मोक्षैकतानस्य ते 'राज्यावाप्त्युपायपृच्छा तदाकर्णय तदुपायं तथाहि आन्तरङ्गराज्यसुखेच्छुना त्वया पूर्वं सेव्याः सद्गुरवः, सम्यगनु-ष्ठेयस्तदुपदेशो, विमर्शनीयः शास्त्रभावार्थोऽनुशीलनीयास्तदुक्त- क्रियाः, कार्य: सत्सङ्गो, हेयश्चाऽसत्सङ्गः, वर्जनीयानि हिंसानृतादत्त-मैथुनानि, विधेयो बाह्याभ्यन्तरपरिग्रह-त्यागः, धारितव्यो यतिवेषो, यापनीयो नवकोटि विशुद्धाहारोप-धिशय्यादिना देहः, प्रतिक्षणं विचिन्त्यः संसारकटुविपाकः, विजेतव्याः पञ्चापि विषयाः, वर्द्धितव्यः स्वाध्याय-सत्य-सन्तोष-तपः-प्रभृतिषूद्योगः, एवं कुर्वतस्ते भविष्यति स्वराज्ये प्रवेशः, ततो गृहीतव्यस्त्वयाऽभ्यासनामाऽन्तरङ्गस्वाङ्गिक-सहायस्तथा चारित्रधर्मसैन्यान् मिलिष्यति अन्योऽपि ते वैराग्यनामा सहायः, ततस्ताभ्यां सहितेन प्रवेष्टव्यं त्वया पूर्वद्वारेण भूत्वा स्वराज्ये, तत्र च वामभागे महामोहदिसैन्याधारभूतानि ग्राम-नगर-ऽऽकरपर्वतादीनि सन्ति, दक्षिणदिग्भागेभ्यः चारित्रसैन्यनिवासभूतानि ग्रामादीनि सन्ति / सर्वेषां चैषामा-धारभूता चितवृत्यटव्येव, तस्याः पर्यन्ते पश्चिमदिग्विभागे निवृत्तिनाम-पुरी, तत्रगतस्य ते पूर्णराज्यफलं भावि / ततस्त्वयाऽनवरत प्रयाणैश्चरित्रधर्मसैन्यातिवल्लभेन महामोहसैन्याऽसं-स्पृष्टे नौदासीन्य-नाम्ना राजमार्गेण प्रस्थातव्यम्, तत्राऽन्तराले आयास्यत्येकोऽध्यवसायनामा महाहूदः, स च कलुषितः सन् भवति प्रकृत्यैव मोहसैन्यपोषाय, चारित्रधर्म-सैन्यस्य तु पीडनाय, स्वच्छीभूतस्तु चारित्रधर्म-पोषाय, मोहसैन्यपीडनायेत्यतस्तद्वैशद्यार्थं नियोज्यास्तया मैत्री-मुदिता-करुणोपेक्षाख्याश्चतस्रो देव्यः ततस्ताभी रक्षिते प्रसन्नीभूते च तस्मिन् ह्रदे, पुष्टीभूतेषु च चारित्रधर्मादिषु स्वाङ्गिकनृपेषु, कर्षितेषु महामोहादि-तस्करगणेषु पुनरग्रतो गन्तव्यं त्वया, आयास्यति चाऽग्रतस्ततो महारदात् प्रवृत्ता धारणा नाम्नी नदी / सा च स्थिरसुखयानाऽऽ सनोपविष्टेनोल्लङ्घनीयाऽतिवेगगत्या प्रत्याहार सावधानेन त्वया, तदने द्रक्ष्यसि धर्मध्याननामकमेकमतिसरलं दण्डोलकं, तेन दण्डोलकेन गच्छन्नग्रतो लप्स्यसे सबीजयोगाख्यं महापथं, तेन भूत्वाऽग्रतो व्रजतस्ते तिरोभविष्यन्ति, मोहादिशत्रवः, प्रबलीभविष्यन्ति चारित्रधर्मादयो हिताः, विशदी-भविष्यति च समस्ता राज्यभूमिः, आयास्यति चाऽग्रे शुक्लध्यानाख्यं दण्डोलकं, तत्र व्रजतस्ते भविष्यति विमल-केवलालोकस्ततोऽग्रे निर्बीजयोगाख्यं महापथं प्राप्य विषमरिपुसमीकरणाय कर्त्तव्यस्त्वया के वलि१. वत्स ! DL-1 // 2. VL1 / वशीकारपछा-DL2॥ 3. सावहिते न L2D //