________________ 48] आत्मख्यातिः पर्याप्तिसम्बन्धेन तत्प्रागभाव एव नियामकः, अत एवैकस्मिन्न पर्याप्तिसम्बन्धेन द्वित्वादिप्रत्ययस्तपागभावस्यैकस्मिन् पर्याप्त्यभावेन तस्यापि तदभावादित्याहु / . अथापेक्षाबुद्धिजन्यत्वे द्वित्वस्य द्वे द्रव्ये इति लौकिकप्रत्यक्षानुपपत्तिः अपेक्षाबुद्धिरथ द्वित्वं अथ द्वित्वत्वनिर्विकल्पकं, ततो द्वित्वत्वविशिष्टप्रत्यक्षं, तदैव च द्वित्वनिर्विकल्पकेन स्वोत्तरवर्तिविशेषगुणविधया जनितोऽपेक्षाबुद्धिविनाशस्ततश्च द्वे द्रव्ये इति लौकिकप्रत्यक्षं तदैव चाऽपेक्षाबुद्धिविनाशाद्वित्वविनाश इति हि त्वदभिमता व्यवस्था, सा चानुपपन्नाऽपेक्षाबुद्धेः स्वजन्यसंस्कारेण द्वित्वनिर्विकल्पकोत्पत्तिक्षण एव नाशात् , योग्यविभुविशेषगुणनाशं प्रति स्वोत्तरवर्तियोग्यजातीयविभुविशेषगुणत्वेन हेतुत्वात् , सुषुप्तिप्राक्कालवर्तिज्ञाननाशकतयैव तत्सिद्धेः / अन्यथाऽनुभवध्वंसेनैव संस्कारान्यथासिद्धेरिति चेत्-न,अपेक्षाबुद्धेः संस्काराजनकत्वादुपेक्षाबुद्धिभिन्नत्वस्येवापेक्षा बुद्धिभिन्नत्वस्यापि संस्कारजनकतावच्छेदके प्रवेशात् / न चैवमप्यपेक्षाबुद्धिजनितैकत्वादिविशिष्टबुद्धयपेक्षाबुद्धिनाशप्रसंगस्तदुक्तम् 'अपेक्षाबुद्धिः संस्कारं मा कार्षीद्विशिष्टबुद्धिं तु कुर्यादेवे' ति वाच्यम् , विशिष्टबुद्धिजननेऽपि द्वित्वसामग्र्यादेरेव फलबलेन प्रतिबन्धकत्वकल्पनात् / वस्तुतोऽपेक्षाबुद्धिनाशे द्वित्वलौकिकप्रत्यक्षस्य विशिष्य कारणत्वकल्पनान्न दोषः / न च तथापि पूर्वापेक्षाजनितद्वित्वनिर्विकल्पकेन स्वद्वितीयक्षणोत्पन्नेनापेक्षाबुद्धस्तृतीयक्षणे नाशप्रसंगः प्रतियोगितयाऽपेक्षाबुद्धिनाशे स्वविषयजनकल्वसम्बन्धेन द्वित्वलौकिकप्रत्यक्षत्वेन हेतुत्वात् / नन्वेवमपि द्वे द्रव्ये इति लौकिकप्रत्यक्षं कथं तदुत्पत्तिक्षणे द्वित्वनाशादिति चेत् ? मैवम् , द्वित्वस्य हि प्रत्यक्षे विषयविधया हेतुत्वं न तु कार्यसहवर्तितयेति दोषाभावात् , न हि सर्वेषां कारणानां कार्यसहवर्तितयैव हेतुत्वं, प्रागभावपक्षतादेरहेतुत्वप्रसंगादिति / सोऽयमाशयो न युक्तः / अनन्तद्वित्वादिध्वंसप्रागभावादिकल्पनायां गौरवात् , तद्वयंन्यत्वपक्षस्यैव युक्तत्वात् , अन्यथा नानापुरुषीयक्रमिकापेक्षाबुद्धिसमसंख्यतुल्यव्यक्तिकनानाद्वित्वादिकल्पनस्यापि प्रसंगात् / मम तु नित्यानामेव तेषां तत्तदपेक्षाबुद्धिव्यंग्यत्वे दोषाभावात् / / __ न चैवं तेषां जातित्वापत्तिरसमवायित्वे सत्यनेकसमवेतत्वस्य समवेतत्वस्यैव वा जातिव्यववहारनिभित्तत्वात् , न च विशेषेऽतिप्रसंगस्तत्र मानाभावात् / किं च द्वित्वादेर्जन्यत्वे प्रतियोगितया नाशाजन्यतन्नाशे स्वप्रतियोगिजन्य वसंबन्धेनापेक्षावुद्धिनाशत्वेन हेतुता वाच्या, तथा च द्वयणुकपरिमाणहेतुपरमाणुद्वित्वस्येश्वरापेक्षाबुद्धिजन्यस्य नाशानुपपत्तिः / न च यादृशोपाधिविशिष्टायास्तस्या अपेक्षा बुद्धित्वं तादृशोपाधिनाशादेव तन्नाशोऽविशिष्टायास्तस्या द्वित्वहेतुत्वे सर्वदा द्विवोत्पत्तिप्रसंगादिति वाच्यम् , स्वाव्यवहितपूर्वक्षणावच्छिन्नत्वेनैव तस्या अपेक्षाबुद्धित्वे तन्नाशात्परमाणुद्वित्वनाशे तस्य क्षणिकत्वप्रसंगात् , अतिरिक्तानुगतोपाधेश्चानिर्वचनात् /