________________ आत्मख्यातिः [49 किंचैवं तत्तद्वित्वनाशे तत्तदपेक्षाबुद्धिनाशत्वेन हेतुत्वे महागौरवम् / अपि च मानसत्वव्याप्यजातिविशेषेणापेक्षाबुद्धद्वित्वादिहेतुत्वे ईश्वरापेक्षाबुद्ध्या परमाणुद्वित्वादिजननापत्तिः, ईश्वरज्ञान साधारणद्वित्वादिजनकतावच्छेदकजातिस्वीकारे च जन्यसाक्षात्कारत्वादिना सांकयं त्रित्वाद्युत्पत्तिकाले द्वित्वाद्यापत्तिश्च दुर्निवारा / एतेन द्वित्वादिजनकतावच्छेदकतयाऽपेक्षाबुद्धिनिष्ठलौकिकविषयत्वस्वीकारोऽपि निरस्तः / ___ परार्धादिसंख्यानुत्पत्तिप्रसक्तेश्च; तदाश्रययावद्र्व्यवृत्तिलो किकविषयताया असंभवात् / अथ परार्धस्य कस्यापि न प्रत्यक्षं तस्य विद्यमानतादृशयावद्र्व्यवृत्तितयाऽतीन्द्रियगुणत्वेनातीन्द्रियत्वात् / स्वाव्यापकयावत्संख्याव्यापकत्वस्यैव परार्धलक्षणत्वात् / न च परार्धद्वितीयक्षणोत्पन्नद्रव्यमादायोत्पन्नपरार्धाश्रययावद्रव्यमादाय च परार्धान्तरमुत्पन्नं तत्परार्धाव्यापके पूर्वपरार्धेऽव्याप्तिः, एकद्रव्योत्पादक्षणे नियमेन द्रव्यान्तरविनाशोत्पादोपगमात् / तदनुपगमे तु स्वसमानक्षणोत्पत्तिकैकत्वान्ययावत्संख्याव्यापकत्वं परार्धत्वं, यावत्त्वमशेषत्वं, तेन स्वा[ स्व ]व्यापकस्य स्वस्यैव व्यापकत्वमादाय लक्षणसमन्वयः / द्वयमपि चेदं परार्धस्य स्वाव्यवहितपूर्ववृत्तियावद्व्यवृत्तित्वनियमेनान्यथाऽपेक्षाबुद्धिवैचित्र्यान्न्यूनाधिकदेशवृत्तिपरार्धद्वयोत्पादे न्यूनवृत्तेरधिकदेशवृत्त्यव्यापकत्वेनाव्याप्तेः, तादृशव्यापकजातीयत्वं वक्तव्यं कस्याश्चित्परार्धव्यक्तेः स्वव्यापकयावत्संख्याव्यापकतया तज्जातीयत्वेनैव तादृशपरार्धन्यूनवृत्तिपरार्धेऽपि लक्षणस्याक्षुण्णत्वादिति तवापि परार्धप्रत्यक्षेऽपेक्षाबुद्धहेतुत्वानुपपत्तिरिति चेत्– न, मम सामान्यत एकत्वान्यसंख्याप्रत्यक्षत्वावच्छिन्न एवापेक्षाबुद्धित्वेन हेतुत्वेऽपि व्यासज्यवृत्तिगुणप्रत्यक्षे यावदाश्रयप्रत्यक्षस्य हेतुत्वेन विशेषसामग्यभावादेव परार्धाप्रत्यक्षत्वोपपत्तेरिति प्राभाकरवृद्धाः / केचित्तु द्वित्वत्रित्वादिकं तुल्यव्यक्तिवृत्तिकमेव सामान्यं अनित्यस्य संयोगादेरिव नित्यस्यापि द्वित्वादेासज्यवृत्तित्वे विरोधाभावात् , भिन्नेन्द्रियग्राह्याणां रूपरसादीनामिव समानेन्द्रियग्राह्याणामपि सत्यप्येकावच्छेदेन समानदेशत्वे प्रतिनियतव्यंजकव्यंग्यत्वे विरोधाभावात् , सहचारदनिमात्रस्याकिंचित्करत्वात् / भेदश्च विरुद्धधर्माध्यासात् स च न्यूनाधिकदेशपर्याप्तवृत्तिकत्वमिस्याहुः / परे तु घटकुटकुड्यकुशूलेषु द्वित्वत्रित्वादिप्रतीतावेकतरनाशे तद्वत्तेद्वित्वादेरपि संयोगादेखि विनाशप्रत्ययादनित्यवृत्ति नानाव्यक्तिकमेव द्वित्वादिकम् / आश्रयविनाशोत्पादाभ्यामेव तस्योत्पादविनाशी, असमवायिकारणं चाश्रयस्यैकत्वं परिमाणं वा, एकवृत्तिकमेकत्वमिव तुल्यव्यक्तिवृत्तिकं द्वित्वाद्यपि नानेकं तुल्यव्यक्तिवृत्तिकद्वित्वादेः प्रतिबन्धकत्वात् / बुद्धिविशेषस्तद्वयञ्जको नतूत्पादको नित्येषु चैकव्यक्तिकमनेकव्यक्तिकं वा नित्यमित्याहुः / आ. 7