________________ आत्मख्यातिः / 47 यद्यपि द्वित्वादावपेक्षाबुद्धे कत्वावगाहिबुद्धित्वेन हेतुताऽयं घट एक इति बुद्धितोऽपि द्वित्वोत्पत्यापत्तेः, नापि नानैकत्वावगाहिबुद्धित्वेन अयमेकश्चिरनष्टो धटश्चैक इति बुद्धितोऽपि तदापत्तेः, तथापि द्वित्वादिजनकतावच्छेदिका मानसत्वव्याप्या नानाजातयो वाच्याः, अन्यथा कदाचिद्वित्वं कदाचित्रित्वमिति नियमो न स्यात् / न च स्मृतिव्याप्यत्वमेव तासां न कुत इति वाच्यं, यद्यक्तिविशेष्यकैकत्वस्मरणं कस्यापि न जातं तत्र स्मरणानुभवकार्यकारणभावकल्पने संस्कारब्यवधानेन क्षणविलम्बे च गौरवात् , स्मृतिव्याप्यत्वेऽपि स्मरणात्मकैकत्वबुद्धिकल्पनाक्षणे मानसोत्पत्तौ बाधकामावात् , उपनायकज्ञानघटितसामग्रीसत्त्वात् , मानसं प्रति तत्तत्स्मृतिसामग्रयाः प्रतिबन्धकत्वकल्पने गौरवात् / सन्तु वा चाक्षुषत्वादिव्याप्या नानाजातयो द्वित्यादौ च* तदाश्रयजन्यतावच्छेदिकाः; न च विलक्षणबुद्धयैव द्वित्वादिव्यवहारोपपत्तावतिरिक्तद्वित्वादौ मानाभावः द्वौ त्रय इत्यादिविलक्षणबुद्धेः प्रकारभेदं विनाऽसम्भवात् / अन्यथा सर्वत्र विषयनिरपेक्षैरेव ज्ञानैस्तत्तद्वयवहारजननप्रसंगात् / न च द्वावित्यादिबुद्धेर्विजातीयज्ञानं विषयोऽचाक्षुषत्वापत्तेः / न चेमौ द्वौ मधुपावेते त्रयः कमलकल्हारकलहंसा इत्यादौ युगपदेव द्वित्वत्रित्वप्रतीतेरेकत्र बुद्धौ द्वित्वत्रित्वजनकतावच्छेदकजात्युपगमे जातिसंकरप्रसंग इति वाच्यम् , द्वित्वत्रित्वोत्पादकापेक्षाबुद्धयोरुत्पादे सूक्ष्मकालभेदकल्पनात् / गिरिरय वहिमानहं तज्ज्ञानवानित्यनुमितिप्रत्यक्षयोरिव / अथ तत्र भिन्नविषयेऽनुमितिसामग्रयाः प्रतिबन्धकत्वादस्तु तयोर्युगपदनुत्पादो न तु प्रकृते इति चेत्-तर्हि प्रतिबन्धकं किंचिदत्रापि कल्प्यताम् अन्यथानुपपत्तेर्बलीयत्वात् / अस्तु वा तत्रापेक्षाबुद्धावुभयजनकतावच्छेदको जातिविशेषः, आस्ता च द्वित्वत्रित्वयोस्तज्जन्यतावच्छेदको जातिभेदौ / एतेन समवाय्यसमवायिनिमित्तानामविशिष्टत्वे द्वित्वत्रित्वाद्युत्पत्तिनियमे किं कारणं द्वाभ्यामेकृत्वाभ्यां द्वित्वं त्रिभिस्त्रित्वमारभ्यं इति वक्तुमशक्यत्वात् / एकत्वे बुद्धित्वादेरभावात् / न च शुद्धयाऽपेक्षाबुद्धया द्वित्वं द्वित्वसहितया च तया त्रित्वमुत्पाद्यत इत्यपि सुवचम् , द्वित्वत्रित्वयोयुगपदेवोक्तप्रत्ययविषयत्वात् / न चकत्वेष्वेव द्वित्वादिजनकतावच्छेदका जातिविशेषा अभ्युपेयास्तत एव द्वित्वादिव्यवहारोपपत्तौ द्वित्वाद्युच्छेदप्रसंगादित्यादिपर्यनुयोगो निरस्तः / अपेक्षाबुद्धिनिष्ठद्वित्वत्रित्वादिजनकतावच्छेदकजातिभेदेनैव तयोः सामग्रीभेदात् , एकापेक्षाधीजन्यद्वित्वयोरप्यन्यत्र परिदृष्टभेदवज्जातीयत्वेनैव भेदात्। आचार्यास्तु द्वित्वप्रागभावगर्भव द्वित्वसामग्री त्रित्वप्रागभावगर्भा च त्रित्वसामग्रीति तयोविशेषः तोऽपि प्रागभावसिद्धिः, अन्यथा तयोविशेषो न स्यात् / पर्याप्तिसम्बन्धेन द्वित्वादिकं प्रति *'च' अधिकं प्रतिभाति /