________________ आत्मख्यातिः द्वित्वादिकस्यापेक्षाबुद्धया जन्यगम्यत्वम् इदमप्यत्र विचार्यते द्वित्वादिकमपेक्षाबुद्धया जन्यं वा व्यंग्यं वेति ? तत्र' जन्यमेवेति नैयायिकाः, व्यंग्यमिति प्राभाकराः, जन्यगम्यमिति वयम् / तत्र नैयाकानामयमाशयः द्वित्वस्य व्यंग्यत्वनयेऽपेक्षाबुद्धेद्वित्वत्वप्रकारकलौकिकप्रत्यक्षत्वं कार्यतावच्छेदकं वाच्यमिति तदपेक्षया द्वित्वत्वस्यैव कार्यतावच्छेदकत्वे लाधवम् / न च व्यंग्यत्वनयेऽपि लौकिकप्रकारतासम्बन्धेन द्वित्वत्वमेव तत्कार्यतावच्छेदकं वक्तुं शक्यं, गुणत्वसंख्यात्वतव्यक्तित्वादिना विनाऽप्यपेक्षाबुद्धिं तत्प्रत्यक्षप्रसंगात् / तेन तेन रूपेण तत्प्रत्यक्ष प्रति तस्या हेतुत्वकल्पने चातिगौरवात्। न च स्वाश्रयविषयतया द्वित्वत्वस्य कार्यतावच्छेदकत्वे न दोष इति वाच्यम्, तथापि व्यंग्यत्वनये स्वाश्रयविषयत्वं कार्यतावच्छेदकतावच्छेदकः सम्बन्धो, जन्यत्वनये तु समवाय इति जन्यत्वपक्ष एव लाधवात्। अथ द्वित्वप्रत्यक्षेऽपि प्रत्यक्षत्वमेव कार्यतावच्छेदकं द्वित्ववृत्तिविषयतायाः कार्यतावच्छेदकसम्बन्धवत्वेनैवानतिप्रसंगात् / अन्यथा द्वित्वप्रत्यक्षस्य विषयतया द्वित्वत्वेऽपि जायमानत्वेन व्यभिचारात् / अपेक्षाबुद्धित्वं कारणतावच्छेदकं तच्च मानसत्वव्याप्यो जातिविशेषः, कारणतावच्छेदकः सम्बन्धः स्वविषयपर्याप्तत्वं तेन घटपटै कत्वबुद्धित्वेनापेक्षाबुद्धेर्धटपट द्वित्वप्रत्यक्षे हेतुत्वेऽनन्तकार्यकारणभावो द्वित्वप्रत्यक्षत्वावच्छिन्नेऽपेक्षाबुद्धित्वेन सामान्यता हेतुत्वेऽपि घटपटद्वित्वप्रत्यक्षकाले घटकुड्यद्वित्वंप्रत्यक्षापत्तिः, विषयवृत्तिसम्बन्धेनाप्यपेक्षाबुद्धेस्तत्र सत्त्वादित्यादिदूषणं निरस्तम् / घटपटैकत्वबुद्धेर्घटकुड्यद्वित्वे स्वविषयपयाप्तत्वसम्बन्धेनासत्त्वादिति व्यंग्यत्वनयेऽपि न गौरवमिति चेत्–न, एवं सति प्रत्यक्षत्वं वा कार्यतावच्छेदकं ज्ञानत्वं वानुभवत्वं चेत्यादौ विनिगमकाभावात् / किं च व्यंग्यत्ववादिना मैत्रीयापेक्षाबुद्धया सन्निकादिवशाद्वित्वे चैत्रीयप्रत्यक्षोत्पत्तिवारणाय चैत्रीयापेक्षाबुद्धित्वचेत्रीयप्रत्यक्षत्वेन कार्यकारणभावा वाच्य इति गौरवमेव / अथ तव पुरुषान्तरापेक्षाबुद्धिजनितद्वित्वस्य पुरुषान्तराप्रत्यक्षत्वाय द्वित्वनिष्ठविषयतासम्बन्धेन चैत्रीयप्रत्यक्षे मैत्रीयद्वित्वादिभेदस्यापि हेतुत्वं कल्पनीयम् / यद्वा चैत्रीयद्वित्वप्रत्यक्षं प्रति चैत्रापेक्षाबुद्धिजन्यद्वित्वत्वेन हेतुता कल्पनीया, कार्यतावच्छेदकः सम्बन्धो विषयता, कारणतावच्छेदकस्तादात्म्यमत एव चैत्रमैत्रापेक्षाबुद्धिभ्यां तुल्यविषयाभ्यां युगपदुत्पन्नाभ्यामुत्पादितं द्वित्वमेकमेवेति मतेऽपि न क्षतिरिति कल्पनायामधिकं गौरवमिति चेत्न , तद्गौरवस्य फलमुखेनादोषत्वात् / 1. एष विषयो 'नयोपदेशे प्रथमप्रकाशेऽपि वर्तते /