________________ आत्मख्यातिः भाववान् घटो वर्तमानकालसम्बन्धाश्रय इति वोधेऽविद्यमानोऽपि घटो भूतले नास्यु यद्यमानोऽपि घटो भूतले नास्तीति प्रयोगानुपपत्तेः सप्तम्या निरूपितत्वं धातोराधेयत्वमर्थस्तथा च भूतलनिरूपितवर्तमानाधेयत्वाश्रयत्वाभाववान् घट इत्यन्वयो वाच्यः / इत्थमेव परम्परया भावना विशेष्ये घटादौ तिङपस्थाप्यसंख्यावा अन्वयात् सुतिङोर्वचनैक्यनियमोपपत्तेः / इत्थमेव च भवनान्निर्गते घटे भवने घटोऽस्तीति भवनस्थे च घटे भवने घटो नास्तीति व्यवहाराप्रामाण्योपपत्तेः / गगनमस्तीत्यनुरोधेन कालसम्बन्धस्थैवास् धात्वर्थत्वे तु सप्तम्यर्थस्यावच्छिन्नत्वस्यास्त्यर्थेऽन्वयो वाच्यः, मेयत्वं घटेऽस्तीत्यादौ तु वृत्तित्वमेव सप्तम्यर्थ इति। तथा च घटपटयोर्घटपटरूपे इत्यस्य सर्वथाऽनुपपत्तिः, उभयनिरूपितस्याधेयत्वस्य उभयावच्छिन्नकालसम्बन्धस्य वा प्रकृतस्थलेऽभावादित्येतादृशस्थले . प्रत्येकसमुदायापेक्षायां योग्यायोग्यत्वव्यवस्थाथै नयभेदोऽवश्यमाश्रयणीयो, द्वित्वेन संगृहीताधेययोदित्वेन संगृहीतसम्बन्धाभ्यां द्वित्वेन संगृहीताधारवृत्तित्वस्य, विभक्ते च विभक्तद्वयावृत्तित्वस्य संभवात् / एवमवयविनोऽप्येकान्तभेदे प्रत्येकसमुदायापेक्षायामवयववृत्तित्वं दुनिरूपम् , नयभेदाश्रयणे तु न काप्यनुपपत्तिरेकत्वेन संगृहीतस्यावयविनः स्वद्रव्यत्वेन संगृहीतयावदवयववृत्तित्वसंभवात् / तत्किम् ? अवयव्येकत्वमपि द्वित्वादिबद्बुद्धिजन्यमेवेति चेत्–न, एकत्वद्वित्वादीनामनन्तानां संख्यापर्यायाणामेकद्रव्यवृत्तीनामेव सतां यथाक्षयोपशमं बुद्धिविशेषेण प्रतिनियतानामेव ग्रहणमित्युपगमात् / युक्तं चैतत् , अन्यथा एकत्रैव घटे तद्रूपतद्रसवतोरक्यमित्यादिना द्विवचनप्रयोगस्य बहुषु च करितुरगरथपदातिषु सेनेत्येकवचनप्रयोगस्यानुपपत्तेः / अथैकत्र द्वित्वादितत्तद्धर्मप्रकारकबुद्धिविषयत्वादिकं गौणमेव द्वित्वादिव्यवहारनिमित्तं, तञ्च तत्तद्धर्मावच्छेदेनैव पर्याप्तमिति नैको द्वावित्यादेः प्रसंग इति चेत्-न, उक्तविषयतास्पद्वित्वादेरप्येकत्र पर्याप्तत्वात् , तत्तद्धर्मप्रकारतानिरूपितत्वविशिष्टविषयताया अपि क्वचिसम्बन्धादिभेदेन प्रकारताभेदादेकस्या अभावात् / भावेऽपि च द्वयस्य प्रत्येकानतिरिक्तत्वेनैकधर्मावच्छेदेन द्वित्वादिपर्याप्तिप्रसंगात् , धर्मगतद्वित्वस्यैव तत्पर्याप्यवच्छेदकत्वस्वीकारे च तत्रापि द्वित्वस्य वास्तवस्याभावाद्रूपत्वरसत्वादिप्रकारकबुद्धिविषयत्वरूपात्यैव गौणस्य स्वीकारे तत्पर्याप्यवच्छेदकादिगवेषणेऽनवस्थेति वास्तवद्वित्वाभावे ज्ञानाकारतैव तत्र पर्यवस्येदिति द्रव्यत्वावच्छिनेकत्वावच्छेदेन पयायत्वावच्छिन्नद्वित्वादेः पयायत्वावच्छिन्नद्वित्वाद्यवच्छेदेन च द्रव्यत्वावच्छिन्नैकत्वादेः 'पर्याप्तिस्वीकारेऽनेकान्तवाद एवानाविला व्यवस्थेति ध्येयम् / अत एव "दव्यद्वया एगे अहं नाणदसणहया दुवे अहं" इत्यादि पारमर्षम् / [