________________ 44] आत्मख्यातिः महानसपर्वतयोर्न वह्निरित्यस्यापि प्रसंगात् / कस्यापि वह्निसंयोगस्य महानसपर्वतोभयावृत्तित्वात् , वहिसंयोगविशेषा एवोभयावृत्तयो न तु वहिसंयोगसामान्यम् , उक्तावृत्तित्वान्वयश्च संयोगसामान्ये वाच्य इत्यनतिप्रसंग इत्युक्तौ च विशेषाणां कथंचित्सामान्यपरिणत्यनभ्युपगमे सामान्यधर्मावच्छिनाधिकरणताकोऽप्यतिरिक्तो भावः स्वीकर्तव्यः स्यादिति / / किंच हृदपर्वतयोर्न वह्निपर्वतत्वे इति प्रतीत्यनुरोधेनापि व्यासज्यवृत्तिधर्मावच्छिन्नाधिकरणताकाभावसिद्धिः / न च तत्र सम्बन्धद्वयावच्छिन्नैकाभावानुपपत्तिः, संयोगसमवायाभ्यां कपाले गुणे वा न वस्तुमात्रमिति प्रतीत्या सम्बन्धद्वयावाच्छन्नाव्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकाभावसिद्धौ तादृशव्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकाभावसिद्धेरपि निरपायत्वात् / न च व्यासज्यवृत्तिधर्मावच्छिन्नाधिकरणताकाभावसत्त्वे पर्वते न वह्रिरित्यपि स्यादिति वाच्यं, तादृशाधिकरणतावच्छेदकद्वित्वादिविशिष्ट एव तदन्वयस्य साकांक्षत्वात् / हन्तैवं गुणे न गुणकर्मान्यत्वविशिष्टसत्तेति प्रतीत्या विशिष्टावच्छिन्नाधिकरणताकोऽप्यतिरिक्तः सिध्येदिति चेत् , सिध्यतु नाम तादृशप्रतीतिसत्त्वे तत्सिद्धेर्हस्तेन पिधातुमशक्यत्वादिति चेत् --- न, तथापि संयोगेन घटे न रूपमित्यादावगतः / तत्र घटसंयुक्तत्वाभाव एव प्रतीयत इति चेत्न , स्पर्श संयोगेन न घट इत्यत्र तथाप्यगतेः तत्र स्पर्शवृत्तित्वाभाववत्संयोगाभाव एव प्रतीयत इति चेत् –न, रूपे तबुद्धौ संयोगेन रूपवत्ताभ्रमस्याप्रतिबन्धकत्वेन तत्सत्त्वेऽपि तदापत्तेः / अथाऽत्र संयोगसम्बन्धावच्छिन्नप्रतियोगिकरूपाभाव एव घटे प्रतीयते भूतले न घट इत्यादौ द्विविधबोधस्यैव शिरोमणिना स्वीकारात् / तदुक्तं नदीधितौ-अत्र च तात्पर्यवशात्कदाचिद्भतलादौ घटाद्यभावः कदाचिच्च घटादौ भूतलवृत्तित्वाभावः प्रतीयत इति / अत एव घटपटयोर्न रूपमित्यपि वाक्यं तात्पर्यभेदेन योग्यायोग्यं रूपत्वावच्छेदेन घटपटोभयवृत्तित्वाभावान्वयतात्पर्य योग्यम् / * रूपत्वावच्छिन्नाभावस्य घटपटोभयवृत्तित्वान्वयतात्पर्य त्वयोग्यमिति विवेकादिति चेत्-ज, रूपे संयोगेन न रूपमित्यादेरपि योग्यायोग्यत्वापत्तेः / रूपे संयोगसम्बन्धावच्छिन्नरूपाभावान्वयविवक्षायां योग्यत्वाद्रूपवृत्तित्वाभाववत्संयोगान्वयविवक्षायां चायोग्यत्वात् / अथानेष्टापत्तिरत एव द्रव्ये न रूपं घटे न जातिरित्यादिवाक्यानामपि तात्पर्यभेदेन योग्यायोग्यत्वं गीयते, द्रव्ये रूपाभावो जातित्वसामानाधिकरण्येन घटवृत्तित्वाभाव इत्यभिप्रायेण योग्यतान्यथात्वयोग्यतैवेति / यदि च घटे न जातिः पृथिव्यां न रूपमित्याद्ययोग्यमेवानुयोगितावच्छेदकावच्छेदेनैव वृत्तित्वाभावान्वयव्युत्पत्तेः, द्रव्ये न रूपमित्यस्याप्ययोग्यत्वे तु तत्र विशेषणतावच्छेदकावच्छिन्नस्यैवाभावान्वये साकांक्षत्वादेकान्तयोग्यत्वमिति चेत्-न, एवं सत्येकरूपबोध एव नादिपदानां साकांक्षत्वापत्तेः, उभयबोधानुरोधेनोभयत्र साकांक्षत्वावश्यकत्वे चोक्तदोषानुद्धारात् / किंचानियमपक्षे द्वितीयकल्पे धातोः कालसम्बन्धोऽर्थ आख्याताओं वर्तमानत्वाद्याश्रयत्वं संख्येव तथा च भूतले घटो नास्तीत्यतो भूतलवृत्तित्वा.