________________ आत्मख्यातिः [43 द्वित्वान्वितप्रकृत्यर्थान्धयः, तस्य नर्थेऽभावे तस्य च समवेतत्व इति जातिघटोभयनिरूपितत्वाभाववत्समवेतत्ववती सत्तेत्यर्थः / समवायेन जातिघटयोन सत्तेत्यत्र च वृत्तित्वमात्रं सप्तम्यर्थस्तदभावस्य समवायेऽन्वयस्तृतीयायाश्च वैशिष्टयमर्थ इति जातिघटोभयवृत्तित्वाभाववत्समवायविशिष्टा सत्तेति बोधस्तद्वत् घटपटयोर्न घटरूपमित्यादावपि घटपटोभयनिरूपितत्वाभाववत्समवेतत्ववद् घटपटोभयवृत्तित्वाभाववत्समवायविशिष्टं वा घटरूपमिति बोधसंभवः / न चैवं घटवत्यपि भवने संयोगे न घट इति स्याद्भवनावृत्तिप्रांगणादिसंयोगवैशिष्टयस्य घटे सत्त्वादिति वाच्यम्, घटान्वयिसंयोगत्वव्यापकत्वविशिष्टविशेषणतया भवनावृत्तित्वान्वय एव तथाव्यवहारादिति चेत्-न, द्वित्ववन्निरूपितत्वाद् द्विनिरूपितत्वस्यानतिरेकेऽस्या अप्युक्तेर्निरवकाशत्वात् / __किं चैवमपि घटपटयोर्न रूपमित्यपि स्यात् / अव्यासज्यवृत्तितया कस्यापि रूपस्य समवेतत्वस्य द्विनिरूपितत्वाभावात् / अपि च घटपटयोर्घटरूपपटरूपे इत्यस्य 'कथमप्यनुपपत्तिर्घटरूपत्वादिस्वरूपाया आधेयताया उभयानिरूपितत्वात् / / तत्र तद्वित्वादिस्वरूपैवाधेयतेति चेत्तर्हि द्वयोः प्रत्येकरूपावच्छेदेन द्वित्वाभावान्निषेधस्यापि प्रवृत्तिः स्यात् / अनुयोगितावच्छेदकावच्छेदेनैव सप्तम्यर्थाधेयत्वान्वयव्युत्पत्तेर्नायं दोष इति चेत् , तथापि घटपटयोर्न घटरूपाकाशे इत्यादिकं कथम् ? घटपटोभयनिरूपितत्वाभाववत्समवेतत्वस्योभयप्राभावात् / जातौ समवायेन न गगनमित्यत्रेवात्र ना उभयत्र सम्बन्धात्तादृशसमवेतत्वाभावबोधस्याप्यत्र वक्तुमशक्यत्वात् , घटरूपे तदभावात् / एतेनान्ध आकाशं न पश्यतीत्यत्रापि नञ उभयत्र सम्बन्धादेव घटकर्मकत्वाभाववद्दर्शनाश्रयत्वाभाववानन्ध इति बोधो गच्छत्यपि न गच्छतीति प्रयोगस्य च तात्पर्यसत्त्वे इष्टापत्तिरित्यादि निरस्तम् / / किंचैकघटवति भूतले न घटाविति कथं समाधेयम् ? तत्र घटान्वयिसंयोगत्वावच्छेदेन तद्भूतलावृत्तित्वायोगादेकघटसंयोगस्य तद्भूतलवृत्तित्वात् / न च नत्र उभयत्र सम्बन्धेनापि निस्तारस्सद्भूतलावृत्तिसंयोगाभावस्याप्यपरघटेऽसत्त्वात् / अथ तत्र संयुक्तत्वमात्रं सप्तम्यर्थस्तस्य च नार्थेऽन्वयात्तद्भूतलसंयुक्तत्वाभाववन्तौ घटावित्यन्वयबोध इति चेत् , तर्हि विना व्यासज्यवृत्तिधर्मावच्छिन्नाधिकरणताकाभावाभ्युपगमं नोक्तसंभवः / द्वित्वसामानाधिकरण्येन तत्र भूतलवृत्तित्वाभावान्वयाभ्युपगमे घटे सत्तातद्भिन्नजाती न स्त इत्यस्यापि प्रसंगात् / / - अथ हुँदपर्वतयोर्न वहिरिस्यादिप्रतीत्याऽस्त्येव व्यासज्यवृत्तिधर्मावच्छिन्नाधिकरणताकोऽभावः / मच हृदपर्वतोभयवृत्तित्वाभाववत्संयुक्तो वह्निरित्येव तत्र प्रतीयत इति वाच्य, तथा सति 1. कथमपि नोपपत्तिरिति भावः / /