________________ आत्मख्यातिः णेन वस्तुनश्चित्रत्वं अधिकावयवापगमे तावत एव दर्शनात् / तदाऽन्यदेव स्वल्पपरिमाणं द्रव्यमुत्पन्नमिति चेत् , प्रागपि तावदन्यदेवेति कुतो न स्वीक्रियते ? अत एव दशतन्तुकपटादेश्वरमतन्तुसंयोगवियोगक्रमेण नाशे नवतन्तुकपटाद्युपलब्धिनिराबाधा, तत्रावस्थितसंयोगैर्नवतन्तुकपटान्तरोत्पत्तिकल्पने तु गौरवम् , प्रथमतन्तुसंयोगवियोगक्रमेण दशतन्तुकनाशेऽपि नवतन्तुकोपलब्धेर्नानुपपत्तिर्दशतन्तुकोत्पत्तिकाल एव चरमतन्तुपर्यन्ते द्वितीयतन्तुमादाय नवतन्तुकपरिणामस्वीकारात् / न चैवं प्रतिलोमानुलोमक्रमेणानन्तपटकल्पनापत्तिर्द्वितीयमादाय नवतन्तुकस्येव तृतीयमादायाष्टतन्तुकस्यापि स्वीकर्त्तव्यत्वादिति वाच्यम् , अनन्तपर्यायद्रव्योपगमे तादृशकल्पनागौरवस्यादोषत्वात् / अग्रे स्वीकर्तव्यस्यैव प्रथमतः स्वीकारान्नवतन्तुकादौ दशतन्तुकादिध्वंसस्य हेतुत्वे मानाभावाच्च / न च जन्यद्रव्ये द्रव्यस्य प्रतिबन्धकत्वाद्वितन्तुकादिसत्त्वे त्रितन्तुकाद्यनुत्पादो दीर्घतन्त्वादौ वस्त्रयुग्माद्यनुपत्यापत्तेस्तत्प्रतिबन्धकत्वे मानाभावात् / न च वस्त्रयुग्मादिव्यवहार एकस्मिन् दशहस्तादियुग्मव्यवहारवदुपपाद्य इति वाच्यम् , तद्व्यवहारस्यापि वास्तवस्यानेकान्ताभ्युपगमं विनानुपपत्तेः प्रदर्शितत्वात् / यादृच्छिकत्वे तु तस्य घटादावेकत्वव्यहारेऽपि नाश्वासो, न चैवमेकत्र नानापटोपलम्भापत्तिः। अङगुलीभूतलसंयोगावच्छेदेन पाण्याद्यनन्तसंयोगानुपलम्भवत्सादृश्यादिवत्तदनुपपलम्भोपपत्तेः। विविच्योपयोगे तावत्तावदवयवसन्निकर्षे नानापटोपलम्भस्येष्टत्वाच्च / न चैकः पट इति प्रतीतेः लोके स्मृत्यादौ च तथाव्यवहारस्यानुपपत्तिर्महापटमादाय तदुपपत्तेः, अनेकान्तेऽनेकत्वेऽप्येकत्वोपपत्तेश्च / कथमन्यथा प्रासादादावेकत्वप्रत्ययः ? नहि प्रासादाचेकद्रव्यं भवद्भिरभ्युपेयते विजातीयानां द्रव्यानारम्भकत्वात् , समूहकृतं तत्रैकत्वमिति चेत्पटादावपि किं न तथा ? अवयव्येकत्वस्य निश्चयतः परमाणुसमूहकृतत्वात् / स्निग्धरूक्षत्वविशेषकृतबन्धतदभावाभ्यां पुनर्व्यावहारिको विशेष इत्युपगमात् / एकान्तभेदेऽवयेष्वयवव्येकदेशेन समवेयात् कात्स्न्येन वा ? आये तद्देशस्यापि देशादिकल्पनायामनवस्था, द्वितीये च प्रत्यवयवसमवेतावयविबहुत्वप्रसक्तिः न च देशकात्स्या॑तिरेकेणान्यावृत्तिरस्तीति बहुशो विवेचितमिति प्राञ्चः / संयोगेन द्रव्यवृत्तित्व एवावच्छिन्नानवच्छिन्नत्वरूपदेशकास्यविकल्पसंभवो न तु समवायेन वृत्तित्व इति नायं प्रसंग इति चेत्-, न, द्वित्वस्य द्वयोः पर्याप्तत्ववत् यावदवयवेष्ववयविनः पर्याप्तत्वे यावदवयवाग्रहे तद्ग्रहो न स्यात् प्रत्येकपर्याप्तत्वे चैकत्वद्रव्यादिवद्भेदप्रसंग इति प्राचीनमतनिष्कर्षात् /