________________ मात्मख्यातिः [41 अथ वह्नित्वादिकमेकैकस्मिन् पर्याप्तं द्वित्वं तु द्वयोरेवेत्यादिप्रतीत्या वहित्वादिपर्याप्त्यवच्छेद कमेकत्वम् / द्वित्वादेस्तु द्वित्वादिकमेवेति सिद्धेः, प्रत्येकपर्याप्तत्वेऽपि वह्नित्वादिवन्नावयविभेद इति चेत्-न, अत्यन्तातिरिक्तजात्यभ्युपगमेऽप्यस्यैव दूषणस्य साम्प्रदायिकैरुद्भावनात् , असिद्धदृष्टान्तात् प्रकृतसिद्धययोगात् / द्वित्वादिपर्याप्तौ प्रमाणप्रदर्शनम् अथ प्रत्येकावृत्तेः समुदायावृत्तित्वनियमाद्वित्वादेरेकत्रापि पर्याप्तिर्दुर्वारेति द्वित्वादेरपि पर्याप्तौ मानाभावो द्वावित्यादिप्रतीतेः समवायादिविषयत्वेनैवोपपत्तेः / एको द्वाविति प्रतीतिस्तु पर्याप्तिस्वीकारेऽपि दुर्वारा। वस्तुत एकत्र द्वाविति न शाब्दधीरेकत्वावच्छिन्ने द्वित्वाद्यन्वयस्य निराकांक्षत्वात् , नापि तथा प्रत्यक्षं तत्र यावदाश्रयसन्निकर्षस्य हेतुत्वात् / न चोभयाश्रयसंनिकर्षकालीनस्यायमेको द्वावयं चैको द्वाविति प्रत्यक्षस्य प्रामाण्यापत्तिस्तत्प्रामाण्यस्य यावदाश्रयविशेष्यताकत्वघटितत्वात् / एकघटवति च द्वित्वावच्छिन्नाधिकरणताविरहादेव नोभयघटवत्ताधीरिति चेत् ? न, पर्याप्त्यनभ्युपगमे त्रित्वाश्रयसन्निकर्षकाले जायमानायास्त्रिषु त्रयो द्वाविति प्रत्यक्षधियो यावदाश्रयविशेष्यताकत्वस्यापि सत्त्वेन. प्रामाण्यापत्तेर्दुर्वारत्वात् / द्वित्वसमव्याप्यविशेष्यकताकत्वं चोदासीनमादाय समूहालम्बनेऽप्रसक्तं तस्मात्पर्याप्तिसम्बन्धेनैकत्वद्वित्वादेर्वत्ताविदन्त्वद्वित्वादिकम् अवच्छेदकम् / न चात्माश्रयो द्वित्वादिव्यक्तिभेदेनापि तत्त्वसंभवादित्ययमेक इमौ द्वाविति प्रमा न तु द्वावेकोऽयं द्वावित्यादिकम् / घटावित्यादि शाब्दधीस्तु वृक्षः संयोगीतिवदवच्छेदकाविषयिण्यपि / पर्याप्त्यवच्छिन्नावच्छेदकताकैकत्वद्वित्वाद्यवच्छिन्नभेदवृत्तौ तु द्वित्वैकत्वाद्यवच्छेदकम् , तेन द्वौ नैक एकोन द्वाविति प्रमा, न त्वयं नैको द्वौ . न द्वावित्यादि / न वा विरोधः मूलाग्रयोरिवेदंत्वद्वित्वाद्यवच्छेदकभेदात् / ' न च समवायेनैवं संभवति तेनैकत्ववान् द्वित्ववान् द्वित्ववान् एकत्ववानिति प्रमोत्पादात् , एकत्ववान्नद्वित्ववानिति प्रमानुत्पादाच्च / इयांस्तु विशेषो द्वित्वादेः कालिकादिनैकत्रापि पर्याप्तिस्वीकारे समवायावच्छिन्नपर्याप्तित्वादिना सम्बन्धत्वमन्यथा पर्याप्तित्वेनैवेति त्वदीयैः प्रतिपादनात् / ___ वस्तुतः सामान्यविशेषरूपशबलपरिणत्यनभ्युपगमे पर्याप्त्याधारताविशेषाभ्युपगमेऽप्येकघटवत्यु भयघटवत्त्वधीप्रसंग एकैकघटवतोरेवोभयघटवत्वात् / चालनीयन्यायेनेमो घटद्वयवन्तावित्यविगानेन प्रतीतेः / न च पर्याप्त्या द्वयवृत्तौ द्वित्वमेवावच्छेदकं एकस्याप्युभयत्वात् / न च घटवृत्तिद्वित्वमेव पर्याप्त्या घटद्वयवृत्ताववच्छेदकतावच्छेदकं तदनुल्लेखिन्या एवेमौ घटद्वयवन्ताविति बुद्धेर्जाय 1. इदन्त्वद्वित्वाद्यवच्छेदकयोमदादिति भावः / आ-६