________________ आत्मनः शरीरपरिमाणत्वम् [39 दिवृत्तित्वरूपं प्रदेशावच्छिन्नत्वं हेत्वनियम्यमेव वार्थसमाजसिद्धत्वात् / न चैवं प्रदेशगतसत्त्वादेरप्यव्याप्यवृत्तित्वापत्तिरनेकान्ते तददोषात् / इत्थं च परमाणुसंयोगजानामपि परम्परासम्बन्धेन द्वयणुकादावनन्तानां संयोगानामकल्पने लाघवमेव / अनयैव दिशाकाशादौ परमाण्वादिसंयोगावच्छिन्नत्वाय प्रदेशसिद्धिः परमाणौ त्वप्रदेशत्वान्न व्यभिचार इति विभावनीय स्वसमयनिष्णातैः / अवयवायविनोरेकान्तभेदे पुनः दूषणम् तस्मात्संयोगजसंयोगादिप्रकियायां मानाभावान्नावयवरागजाव्याप्यवृत्तिरागसंभव इत्यवयविन एकान्तभेदे एकदेशरागे सर्वरागस्यैकदेशावरणे सर्वावरणस्य च प्रसंगावनुद्धतावेव / यत्त्वयवव्यरक्त एव केवलं क्वचिदवयवे रक्तरूपेणारक्तरूपाभिभवात्तदनुपलम्भ इति कस्यचित्समाधानं तदज्ञानविलसितम् , अवयविरूपस्यैकत्वेनान्यावयवेऽप्यरक्तानुपलम्भप्रसंगात् / न च तदवयवावच्छिन्नं रक्तत्वं तदवयवावच्छेदेनैवारक्ताभिभावकमिति वाच्यम् , अरक्तत्वग्रहप्रतिबन्धकग्रहविषयत्वरूपस्याभिभावकत्वस्यानवच्छिन्नत्वात् / न च रक्तावयवविषयकतदरक्तत्वग्रहे तद्रागः प्रतिबन्धक इति वाच्यं गौरवात् , रक्तावयवावच्छेदेन चक्षुःसन्निकर्षे रक्तावयवाविषयकतदरक्तत्वप्रतीतिप्रसंगाच्च / किंच किंचिद्वस्त्रं रक्तं सर्व वस्त्रं रक्तमिति प्रतीतौ किंचिदिति सर्वमिति च वस्त्रगतावेव विशेषौ भासेते न तु रागे किंचित्सर्वावयवावच्छिन्नत्वविशेष इति किमपुष्टसमाधानेन / देशस्कन्धादिभेदानभ्युपगमेऽर्धादिव्यवहारस्य कथमप्यनुपपत्तेः। अवयवगतार्धादिपरिणामात्स्कन्धगतस्य तस्य वैलक्षण्यात् / एतेन, रक्तत्वं पटे रञ्जकद्रव्यनिष्ठमेव परम्परासम्बन्धेन प्रतीयतेऽरक्तत्वं तु समवायसम्बन्धावच्छिन्नप्रतियोगिताको रक्तभेद एवेति न विरोध इत्यपि निरस्तम् , परम्परासम्बन्धाप्रतीतावपि तथा प्रतीतेः, किंचित्त्वाद्यवच्छिन्नाधारताया असमर्थनाच्च / एतेन देशावरणस्थलेऽप्यवयव्यनावृत एव तद्गतपरिमाणग्रहोऽपीष्ट एव / तद्गतहस्तत्वादिजातिग्रहे तु यावदवयवाविच्छेदेन सन्निकर्षोपि हेतुरिति लीलावतीकाराद्याशयो निरस्तो यावदवयवावच्छेदेन सन्निकर्षासंभवाच्च परभागमध्यावयवाद्यवच्छेदेन तदनुपपत्तेः प्रतिनियतावयवावच्छेदेन सन्निकर्षाद्धस्तत्वादिग्रहाभ्युपगमे च हस्तादिमानावयवानान्तरत्वमेवावयविन आगतम् , अन्यथा प्रासादधान्यराश्यादिगतं हस्तत्वादिकमपि स्वसमवायिसमवायिद्रव्यान्तरमाक्षिपेत् एवं प्रतिनियतानावृतावयवोपलम्भे पटादेः पृथुपृथुतरपृथुतमत्वाद्युपलम्भोऽप्यवयवाभेदे साक्षी अतिरिक्तपरिमाणस्याव्यवस्थितोपलम्भायोगात् / परिमाणभेदिपटादेरध्यक्षं भ्रान्तमिति चेत् , तर्हि स्थूलाकारे भ्रान्तत्वं पूत्कुर्वाणो मायासू नुशिष्यः कथं निर्धारणीयः [?], कथमेकत्र वस्तुनि पृथुपृथुतरत्वादि भेदेन चित्रप्रतिभास इति चेत् ? तदिदै तस्यैव प्रष्टव्यं, यश्चित्रे वस्तुनि चित्रोल्लेखमुन्मीलयन्नेव(?)विज़म्भते / युक्तं चावान्तरदेशपरिमा