________________ 38] आत्मख्यातिः - स्वोत्तरभाविनमपेक्ष्यैव कारणमात्रविभागस्य विभागजनकत्वमिति सिद्धान्तमनुरुध्याचार्यदशेकादशक्षणा प्रक्रियाऽभिहिता तामपेक्ष्यैव यथा संयोगस्य संयोगजनकत्वं कारणाकारणविभागस्य च विभागजनकत्वं तथा कारणमात्रविभागस्यापि, यथा च तथात्वेऽपि न तयोः कर्मलक्षणातिव्याप्तिस्तथाऽत्रापीति स्वतन्त्रमते नवक्षणा, कारणमात्रविभागपूर्वकविभागनङ्गीकनैयायिकमते पुनरष्टक्षणा, कर्मणैवारम्भकसंयोगप्रतिद्वन्द्वयप्रतिद्वन्द्विविभागजननात् / इयं च क्षणगणना एकस्मिन्नेव पूर्वद्वयणुकनाशकोत्तरद्वयणुकोत्पादकक्रियासत्त्वमधिकृत्य ज्ञेया / पञ्चमादि क्षणेषु गुणोत्पत्तिः / ____यदा त्वेकत्र व्यणुकविनाशिकाऽन्यत्र व्यणुकोत्पादिका क्रिया तदा व्यणुकविनाशमारभ्य पञ्चमे षष्ठे सप्तमेऽष्टमे नवमे वा क्षणे गुणोत्पत्तिः। कथमिति चेत् ? इत्थं, . यदा द्रव्यारम्भकसंयोगो विनश्यति तदैव परमाण्वन्तरे कर्म, तत एकत्र क्रमेण द्रव्यनाशपरमाण्वाकाशंसंयोगनाशपरमाणूत्तरसंयोगाः, अन्यत्र विभागपूर्वसंयोगनाशोत्तरसंयोगाः, ततो द्रव्योत्पत्तिस्तदुत्तरक्षणे गुणोत्पत्तिः / एवं द्रव्यविनाशक्षणे परमाण्वन्तरे क्रियाचिन्तनात् षष्ठे, परमाण्वाकाशसंयोगनाशकाले क्रियाचिन्तायां सप्तमे, परमाणुत्तरसंयोगोत्पत्तिकाले क्रियाचिन्तायामष्टमे, परमाणुसंयोगद्वितीयक्षणे च कर्मचिन्तनात्तु नवमे क्षण इति / एवं द्वित्रिचतुःक्षणा प्रकिया न संभवत्येवेत्याचार्याः / द्वयणुकनाशकाले परमाण्वन्तरसंयुक्तेन विनश्यदवस्थश्यामादिशालिना द्वितीये क्षणे द्वयणुकान्तरस्योत्पादः / . .. तृतीये च परमाण्वन्तररूपादिना तत्र रूपादेरुत्पत्तिः, * रूपाद्यन्तरसहकृतस्यैव रूपादे रूपाद्यन्तरजनकत्वे तु चतुर्थे / क्षणद्वयं नीरूपादिकं द्वयणुकमिति पुनरुच्छंखलाः। संयोगजसंयोगनिषेधस्योपसंहारः *इति तस्मात्कर्मणश्चतुःक्षणस्थायित्वं परेषां न नियतमिति घटक्रियाकालीनपरमाणुक्रियाजनितपरमाणुसंयोगजस्यैव घटसंयोगस्यसम्भवात्तन्नाश्यघटक्रियायाश्च पञ्चक्षणस्थायित्वस्यापि सम्भवात्संयोगजसंयोगाभ्युपगमेऽवयविनि कर्मजसंयोगोच्छेद इति दूषणं वज्रलेपायितमेव / यदि चावयविसंयोगेवयवसंयोगस्यैव हेतुत्वमिति परमाणोरवयविनि साक्षादवयवत्वाभावात्परम्परासम्बन्धेनावयवत्वे गौरवमित्युप्रेक्ष्यते तदा स्कन्धसम्बन्धनियतोऽवयविनि परमाणोः साक्षात्सम्बन्ध एव कल्प्यतां, तेनैवास्माकं प्रदेशत्वव्यवहारः। प्रदेशे संयोगनियामकमेव च प्रदेशावच्छिन्नदेशादिसंयोगनियामकम् ।स्वाश्रयाभिन्नदेशा. * ' इति ' पदं चिन्त्यम् /