________________ आत्मनः शरीरपरिमाणत्वम् ननु तन्त्वारम्भकसंयोगप्रतिद्वन्द्विविभागजनिका क्रिया ततस्तन्तुद्वयविभागः, तत आरम्भकसंयोगनाशः, ततस्तन्त्वाकाशविभागः, ततस्तन्त्वाकाशसंयोगनाशः, ततस्तन्तूतरदेशसंयोग इति षट्क्षणस्थायित्वं तन्तुकर्मणः / एवमारम्भकसंयोगनाशद्रव्यनाशे सति तन्त्वाकाशविभाग इति मते सप्तक्षणावस्थायित्वं तस्येत्यभिप्रेतं तच्च न संभवति तथाहि तन्तुकर्मोत्पत्तिकालेशुकर्मोत्पत्तिसंभवाद्वितीयक्षणेश्वाकाशविभागः, तृतीये तेनैव तन्त्वाकाशविभागः, चतुर्थे तन्त्वाकाशसंयोगनाशः, पञ्चमे तन्तूत्तरदेशसंयोग इति पञ्चक्षणस्थायित्वस्यैव संभवात् / युक्तं चैतदन्यथा यत्रतत्तन्तुकत्पित्तिचतुर्थक्षणे तन्त्वन्तरनाशात्तन्तुद्वयविभागनाशस्तत्रैतसन्तुकर्मणैतत्तन्तोरुत्तरसंयोगो न स्यादेतत्तन्त्वाकाशसंयोगनाशकविभागाभावात् / तस्मात्तत्रांश्वाकाशविभागात्तद्विभागो वाच्यस्तथा चान्यत्रापि तथेति चेत् , न, परमाण्वोरारम्भकसंयोगप्रतिद्वन्द्रिक्रियामा एवं मतभेदेन षट्सप्तक्षणस्थायित्वसंभवात् / पाकजप्रक्रियायाः दशैकादशक्षणस्थायित्वम् _एवं चास्य कर्मणः षट्क्षणस्थायित्वमते आचार्यदशक्षणा पाकजप्रकिया प्रादर्शि सप्तक्षणस्थायित्वपक्षे चैकादशक्षणा / तथाहि___द्वयणुकनाशमारभ्य कतिमिः क्षणैः पुनरन्त्यद्वयणुकमुत्पद्य रूपादिमद्भवतीति जिज्ञासायामुच्यतेऽग्न्यभिघातात्परमाणौ कर्म, ततः परमाणुद्वयविभागः, ततः परमाणुद्वयसंयोगनाशः, ततो दयणुकनाशः परमाण्वाकाशविभागश्च युगपदेव, द्वयणुकनाशद्वितीयक्षणे परमाण्वाकाशसंयोगनाशः, तृतीये परमाणूत्तरदेशसंयोगः, चतुर्थे परमाणुकर्मनाशः, पञ्चमेऽदृष्टवदात्मसंयोगाद्वयणुकान्तरारम्भणाय परमाणुक्रिया, षष्ठे परमाणुपूर्वदेशविभागः, सप्तमे परमाणुपूर्वदेशसंयोगनाशः, अष्टमे परमाण्वोराम्भकसंयोगः, नवमे द्वयणुकस्य, दशमे तद्रूपस्योत्पत्तिरिति दशक्षणाः, व्यणुकनाशद्वितीयक्षणे परमाण्वाकाशविभागोत्पादाभ्युपगमे चैकादशक्षणाः, पक्षद्वयेऽपि द्वयणुकनाशोत्तरमग्निसंयोगात्परमाणौ श्यामादिनिवृत्तिस्तदुत्तरक्षणे रक्ताद्युत्पत्तिः पाकजरूपनिवृत्तौ समवायेन द्रव्यस्य प्रतिबन्धकत्वात्सति द्वयणुके तदंसंभवात् / - एकस्मादग्निसंयोगात्परम्परया परमाण्वादिक्रियाक्रमेण व्यणुकनाशोऽन्यस्माच्च श्यामादिविनाशोऽन्यस्माच्च रक्ताद्युत्पाद इति भाष्यकृतः / युक्तं चैतत्कदाचित्परमाणौ नीलस्य कदाचिबीतादेख्पत्तिरिति नियमाय विजातीयामिसंयोगानां परमाणुनीलत्वादेर्विजातीयामिसंयोगस्य च परमाणुरूपनाशत्वस्य कार्यतावच्छेदकत्वात् / इदं तु बोध्यम्