________________ 36] आत्मख्यातिः परमतेन कर्मणो द्विक्षणस्थायित्वम् / - परे तु कर्मणो द्विक्षणस्थायित्वमेव / तथाहि --शरादौ कर्म, तत उत्तरदेशसंयोगस्ततः कर्मनाश इति पूर्वसंयोगस्य * विरोधित्वे विभागस्य हेतुत्वे च मानाभावात् , विभक्त इति प्रत्ययस्य संयोगध्वंसेनोत्पत्तौ विभाग एव मानाभावात् / न चैवं कथं पूर्वसंयोगनाशः कर्मणैव द्वितीयक्षणे पूर्वसंयोगनाशस्योत्तर संयोगस्य च जननात् / न चैवमविशेषाच्छरकर्मणा शरजतुसंयोगनाशापत्तिरारम्भकसंयोगविरोधिविभागाजनकेनापि च तन्तुकर्मणारम्भकसंयोगनाशापत्तिरिति वाच्यम् , तवापि मते तेन कर्मणा जतुविभागादिजननापत्तेः। यदि च तत्तत्कर्मणो विशिष्यैव तत्तद्विभागजनकत्वं त्वयेष्यते तदा मयापि विशिष्यैव तत्तत्संयोगनाशकत्वं वाच्यमित्याहुः / भारम्भकसंयोगविरोधिविभागजनककर्मणः पञ्चक्षणस्थायित्वम् .. अथारम्भकसंयोगविरोधिविभागजनककर्मणः कथं पञ्चक्षणस्थायित्वमिति चेत् , इत्थम् / तन्तौ कर्म, तत आरम्भकसंयोगप्रतिद्वन्द्वी तन्तुद्वयविभागः, ततस्तन्तुद्वयविभागात्तन्त्वाकाशादिविभागस्तत आकाशादिसंयोगनाशस्ततस्तन्तूत्तरदेशसंयोगस्ततः कर्मनाश इति / विभागजविभागो द्विविधः कारणाकारणविभागजः कारणमात्रविभागजश्च / तन्त्वाकाशविभागात्पटाकाशविभागः कारणाकारणविभागजः / तन्तुद्वयविभागात्तन्त्वाकाशविभागः कारणमात्रवृत्तिविभागज इति व्यवस्थितेः / . नन्वारम्भकसयोगविरोधिविभागजनकतन्तुकर्मणैव न कुतस्तन्त्वाकाशविभाग इति* चित्रारम्भकसंयोगप्रतिद्वन्द्विविभागजनककर्मणो नानारम्भकसंयोगप्रतिद्वन्द्विविभागजनकत्वमिति नियमस्य प्रमाणसिद्धत्वात् , अन्यथा विकसत्कमलकुडूमलभङ्गप्रसंगात् / कमलदलकर्मणाऽनारम्भकसंयोगविरोधिविभागस्येवारम्भकसंयोगविरोधिविभागस्यापि जननसंभवात् / न चैतदुपपत्तये अनारम्भकसंयोगप्रतिद्वन्द्विविभागजनककर्मणोऽनारम्भकसंयोगविरोधिविभागजनकत्वमित्येव नियमः सिध्यति, नत्वारम्भकसंयोगप्रतिदन्द्विविभागजनकेन कर्मणा नानारम्भकसंयोगप्रतिद्वन्द्विविभागजननमिति विपरीतनियम इति चेत् ? न, तुल्ययोगक्षेमतया तद्व्याप्त्यैवार्थत एतद्व्याप्तेरपि सिद्धेः / आरम्भकसंयोगप्रतिद्वन्द्विविभागजनककर्मणः षट्सप्तक्षणस्थायित्वम् - एवं च कारणमात्रवृतिविभागस्यारम्भकसंयोगनाशमपेक्ष्य तन्त्वाकाशादिविभागजनकत्वमिति पक्षे आरम्भकसंयोगप्रतिद्वन्द्विविभागजनककर्मणः षट्क्षणावस्थायित्वम् / द्रव्यनाशमपेक्ष्य तस्य तन्त्वाकाशादिविभागजनकत्वपक्षे सप्तक्षणस्थायित्वमिति / * इति चेत् ? नारम्भक*