________________ आत्मनः शरीरपरिमाणत्वम् तदपि तुच्छम्, कर्मद्वयजन्यसंयोगस्थले वैजात्यान्तरस्वीकारे कर्मत्रयजन्यस्थलेऽपि वैजात्यान्तरस्वीकारापत्तेः, तत्र द्वाम्यां संयोगद्वयस्वीकारे एकैककर्मवृद्धौ बहुबहुतरकार्यवृद्धिप्रसंगात् / किंचैवमुभयजस्थलेऽपि प्रत्येकजन्यकार्यद्वयं कुतो न स्वीक्रियते ? जातिसंकरभिया जातित्यागस्यैव सांकर्यस्य तत्रादोषत्वस्वीकारस्य वौचित्यात् , अनुभवस्तु प्रत्येकसमुदायकार्यस्थले शबलपरिणामं विना सर्वथैवानुपपन्नः स्कन्धदेशभेदेनैकत्वानेकत्वाभ्यामेव संयोगानुभवस्य सार्वजनीनत्वात् / किंचोभयकर्मजन्यसंयोगे वैजात्याभ्युपगमे परमाण्वोः क्रियाभ्यां जनिते संयोगे तदनुपपत्तिर्जातेरेकव्यक्तिवृत्तित्वाभावात् , निरंशे परमाणाववच्छेदकभेदेन संयोगनानात्वस्यापि स्वीकर्तुमशक्यत्वात् / दिग्विभागाय तत्राप्यवच्छेदकभेदः स्वीकर्तव्य इति चेत् , सम्यक्अनेकान्तवादे मार्गे समायातोऽसि, पर्यायतः सांशत्वस्य द्रव्यतो निरंशत्वस्याभ्युपगमं विनेत्थं वक्तुमशक्यत्वात् / किंच सामान्यतस्तत्तद्देशव्यक्तिसमवेतसत्त्वावच्छिन्नं प्रति तत्तद्देशव्यक्त्यवच्छिन्नं च प्रत्येव तत्तद्देशव्यक्तीनां तत्तदैवच्छेदकव्यक्तीनां च तादात्म्येन हेतुत्वं कल्पते न तु तत्तत्कर्माधीनसंयोगवादीनामनन्तानां कार्यतावच्छेदके प्रवेशो गौरवात् , इत्थं च तत्तत्कर्मणः स्वाव्यवहितोत्तरसंयोगत्वावच्छिन्ने कालिकेनंव हेतुत्वमस्तु, अयमेवास्माकं तथाभव्यत्वहेतुतावादस्तद्र्व्यपरिणामत्वावच्छिन्ने, तद्र्व्यं तद्रव्यविशिष्टपरिणामे च तद्रव्यविशिष्टस्वभावो हेतुरिति तदर्थात् , इत्थमेव दैशिक-कालिकातिप्रसंगनिरासात् / नन्वेवं कर्मणः संयोगे केवलकालिककारणत्वे निमित्तकारणत्वमेव स्यान्नासमवायिकारणत्वमिति सिद्धान्तहानिरिति चेत् , किं नश्छिन्नं, मिथ्याभिनिवेशहेतुः सिद्धान्त एव तवास्माकं हापयितव्य इति / किंच तत्तत्कर्मणाऽवयवे संयोगे जननीयेऽवयविन्यप्यवर्जनीयसंनिधितया सर्जनीय इति कुतः कर्मजसंयोगस्य वैलक्षण्यम् ? अवयवाभिमुख्येऽवयविन्याभिमुख्याभावस्य वक्तुमशक्यत्वात् / हन्तैवमवयवक्रिययाऽवयवान्तर इवावयविन्यपि संयोगजननापत्तिरिति चेत् , एकान्तसमुद्रपाते कियती नापत्तिः / ___ इष्यत एव * नवीनैरवयवावयविनोरपि संयोगः शिरसि शरीरसंयुक्तः पाणिरिति प्रत्ययात् / अभिमुखदेश चावयवकर्मणोऽन्य इवावयव्यपीति न कारणबाधः अत एवैकतन्तुकः पटोऽपि संगच्छतेऽअंशुतन्तुसंयोगेन पटोत्पत्तेः। अंशो पटोत्पत्यापत्तिस्तु द्रव्यान्तरस्य प्रतिबन्धकस्य सत्त्वादेव न भवतीति तैरभिधानात् /