________________ आत्मख्यातिः अथ तन्तुकर्मणा तन्त्वाकाशसंयोगे जननीये तन्तोः समवायित्वादाकाशस्य चोत्तरदेशत्वात्तयोरेव तदुत्पत्तिः, पटाकाशसंयोगस्तु न तेन जननीयः पटस्योदासीनत्वादिति संयोगजसंयोगात् कर्मजसंयोगवैलक्षण्यमिति चेत् , न, तन्तुक्रियाकाले पटक्रियाया आवश्यकत्वान्नायं नियमः / अत एव कम्पजनकाभिधातादेः फलबलेन कल्पनात् पाणौ शरीरं चलतीति प्रत्ययस्य पाणिवृत्तिकम्पस्य शरोरे परम्परासम्बन्धविषयकत्वेनोपपादनात्सकम्पनिःकम्पत्वाभ्यां शरीरभेदः प्राभिनिरस्त इति चेत् ? न, ए सति कर्मणोऽणुमात्रगतत्वस्य त्रुटिमात्रगतत्वस्य पाणावेवापत्तेः / सर्वावच्छेदेनोपलभ्यमानकर्मवत्यपि शरीरादौ कर्मधियः परम्परासम्बन्धविषयत्वस्य सुवचत्वात् / साक्षात्सम्बन्धविषयत्वेऽतिरिक्तशरीरकल्पनाया एव बाधकत्वात् , कर्माभावोपलम्भस्य च परितः प्रतियोग्युपलब्धिदोषादेवाप्रसंगात् / यदि च तत्र साक्षात्सम्बन्धविषयक एवानुभवः प्रमाणीक्रियते तदा तब्दलादेवावयवक्रियाकालेऽवयविक्रियाऽवश्यमभ्युपगन्तव्या इष्यते च नवीनैः / ___ कर्माच्याप्यवृत्तित्वम् / अन्यथा संयोगाव्याप्यवृत्तित्वेऽपि का प्रत्याशा ? मूले वृक्ष इत्यादावपि मूलवृत्तिसंयोगशाखावृतिसंयोगाभावयोवृक्षे परम्परासम्बन्धविषयकप्रतीतेर्वक्तुं शक्यत्वादिति विभावनीयम् / यदि चैवमपि स्वप्रक्रियया कर्मजसंयोगजसंयोगौ विलक्षणाविप्यतेतदाप्यवयविनि कर्मजसंयोगे मानाभावः / परमाणुकर्मणामेवसंयोगजनकत्वोदवयविनि कारणाकारणसंयोग[-ज]संयोगस्यैव सुवचत्वात् , एकरयामन्यवयविव्यक्तौ कालभेदेनानन्तकमव्यक्तीनां हेतुत्वकल्पने गौरवात् / ' घटादिकोत्पत्तिसमये तदारम्भकपरमाणाववश्य कर्मोत्पत्त्या चतुर्थक्षणे परमाणोरुत्तरदेशसंयोगस्ततः पञ्चमक्षणे परमाणूत्तरदेशसंयोगात् घटादेरुत्तरदेशस्य संयोग इत्येकक्षणविलम्बकल्पनस्यादोषत्वात् / साक्षात्परम्परासाधारणावयवसंयोगस्यैवावयविसंयोगजनकत्वान्युपगमेनानुपपत्त्यभावात् / अथानया युक्त्या स्वतन्त्रैः परमाणुकर्मणामेव विभागजनकत्वं स्वीक्रियतेऽवयविनि तु विभागजविभाग एव स्वीक्रियतेऽवयविकर्मणां गौरवान्मानाभावाच्च विभागाजनकत्वात् / संयोगस्थले तु नैवं, परमाणुकर्मस्थले लांघवात्सामान्यतो नाशाजन्यकर्मनाशत्वावच्छिन्नं प्रति फलोपधायकत्वसम्बन्धेन संयोगत्वेन कारणत्वस्य क्लप्ततयाऽवयविकर्मणां नाशान्यथानुपपत्यैव संयोगजनकत्वकल्पनादिति चेत् ? न, नाशाजन्यत्वस्य सामान्यतो दुर्वचत्वात् , संयोगजन्यस्यापि कर्मनाशस्य कालिकेन नाशजन्यत्वात् स्वप्रतियोगिसमवेतत्वसम्बन्धावच्छिन्ननाशजन्यताश्रयो यो यस्तन्नित्वनिवेशे च गौरवात्परमाणुक्रियासु वैजात्यस्यैव नाश्यतावच्छेदकत्वौचित्यात् / इत्थं चावयविकर्मणां क्रियाभेदेन क्रियाजन्यतावच्छेदकसंयोगनिष्ठवैजात्यभेदस्थले क्रियानाशकतावच्छेदकसंयोगनिष्ठवैजात्यभेदस्यापि सुवचत्वात् / नहयेवं परमाण्ववयविनोः / उभयत्रैव क्रियाव्यक्तिभेदेन क्रियासंयोगयोरनन्तनाश्यना