________________ 30] आत्मख्याति: योरारम्भकतावच्छेदकजातिव्याप्यतद्विरुद्धयोāजात्ययो नात्वाभ्युपगमात् / न चारम्भकैकसंयोगव्यक्तिजननस्थले तदसंभवः सर्वाभिरपि तादृशकर्मव्यक्तिभिरवच्छेदकभेदेन द्रव्यारम्भकनानासंयोगजननात् / न चैतावद्वैजात्यकल्पनापेक्षया लाघवात्तत्कर्मव्यक्तित्वेन तत्कर्मवद्वत्तित्वविशिष्टसंयोगत्वेन च कार्यकारणभावौचित्यमिति वाच्यम् , तत्कर्मसमकालोत्पन्नमूर्तान्तरक्रियाधीनसंयोगे व्यभिचारात् , तत्कर्माव्यवहितोत्तरसंयोगत्वं च न कार्यतावच्छेदकं तदव्यवहितोत्तरत्वस्य तच्चतुर्थक्षणोत्पन्नत्वरूपस्यानुगतस्य दुर्वचत्वात् / तथापि तत्तत्क्रियाधीनसंयोगस्य तद्देशवृत्तित्वविशिष्टसमवायेनोत्पत्तौ कर्मणां नियामकत्वं सिद्धम् , स क्वचिदेवोत्तरदेशे जायते नान्यत्र क्वचिदेवावच्छेदके नान्यत्रेत्यत्र किं नियामकमिति चेत् , तत्तत्क्रियाधीनसंयोगवत्त्वावच्छिन्नं प्रति तत्तदुत्तरदेशव्यक्तीनां तत्तदवच्छेदकव्यक्तीनां च तादात्म्येन हेमुत्वमेव / तत्तद्देशवृत्तित्वविशिष्टसमवायस्य तादृशावच्छेदकत्वस्य च कार्यतावच्छेदकसम्बन्धत्वान्न मिथो व्यभिचार इति / अथैवं तद्वृत्तिक्रियात्वेन तदीयसंयोगत्वेन च हेतुहेतुमद्भावोऽस्तु कियाभेदेन कार्यकारणभावभेदस्य जातिभेदस्य च कल्पने गौरवात् / तदीयत्वं च तत्तद्वृत्तिकर्मजन्यसंयोगमात्रनिष्ठजातिविशेषो, नातस्तद्वत्तिकर्मणा विनापि जायमाने संयोगजतदीयसंयोगमूर्त्तान्तरक्रियाधीनतन्निष्ठमूर्तान्तर संयोगे च व्यभिचारो, न चोभयवृत्तिकर्मजसंयोगे सांकर्य तत्र चित्रसंयोगभेदस्यैवाभ्युपगमादिति चेत् ? न, अङ्गुलीनिष्ठकर्मान्तरजन्यशाखाङ्गुलीसंयोगनाशद्वारा भूतलादावङ्गुलीसंयोगजननदशायां तच्छाखायामप्यङ्गुलीसंयोगोत्पादप्रसंगस्य दुर्वास्त्वात् , अङ्गुलीपूर्वसंयोगं प्रति तच्छारवाया अपि हेतुत्वेनोत्तरदेशस्थलत्वेन हेतुतयापि तद्वारणासंभवात् / एतेन समवायेन सामान्यतो विलक्षणसंयोगत्वेन कर्मत्वेनैव कार्यकारणभावोऽस्तु द्विष्ठकार्यस्थले यत्किञ्चिदधिकरणव्यभिचारस्य कारणताशरीराविघटकत्वात् / प्रकृते कार्यतावच्छेदकावच्छिन्ना यावत्यो व्यक्तयस्तत्तद्वयक्त्युत्पत्तित्वावच्छिन्नपूर्वकालावच्छेदेन तत्तद्वयक्त्युत्पत्यधिकरणदेशव्यक्तिषु वर्तमानत्वे सत्यन्यथा सिद्धयनिरूपकधर्मवत्वस्यैव कारणताशरीरघटकत्वादिति केषांचिन्मतं निरस्तम् / एतेनैव च प्रतियोगितया विलक्षणसंयोगत्वावच्छिन्ने समवायेन कर्मत्वेन हेतुत्वम् , प्रतियोगित्वं चायमेतत्प्रतियोगिकसंयोगवानित्यादिप्रतीतिसाक्षिकः स्वरूपसम्बन्धविशेषः, स च यदीयकर्मणा संयोगो जायते तत्रैव वर्त्तते नान्यत्रेति न व्यभिचार इति स्वतन्त्रमतमपि निरस्तं क्रियायास्तद्वयक्तित्वेन कारणत्वं विनोत्तरदेशस्य तद्व्यक्तित्वेन हेतुतयाऽप्युक्तातिप्रसंगावारणादित्याहुः