________________ आत्मनः शरीरपरिमाणत्वम् 29] संयोगोत्पत्तिवारणायावच्छिन्नान्तमाधारताविशेषणं, पूर्वसंबोगस्थ प्रतिबन्धकत्वेन तदानीं संयोगोत्पत्तिवारणे तु नोपादेयमेव तत् / तद्व्यक्तिनिष्ठत कालपूर्वोत्पन्नमूर्त्तान्तरक्रियाधीनमूर्तान्तरसंबोक्तिपु तत्कालपूर्वोत्पन्नासु तदानीमुत्पद्यमानासु वा तद्वयक्तिनिष्ठसंभोगव्यक्तिषु तदानी तादात्म्येन संयोगोत्पत्तिप्रसंगे तु तद्वारणाय विलक्षणसंयोगत्वविशिष्टस्वसमवाय्युत्पत्तिकत्वं कारणतावच्छेदकसम्बन्ध एष्टव्य इति चेत् ? न, एवं हि कारणाव्यवहितोत्तरक्षणत्वापेक्षया लाघवात्सर्वत्र कारणक्षणत्वमेव कार्योत्पत्तिव्याप्यमिति तुल्यकालयोरपि शक्तिविशेषात् प्रतिनियतरूपेण कार्यकारणभावः / अत एव 'क्रियमाणं कृत 'मिति सिद्धान्तप्रवाद इत्यस्मदीयं निश्चयनयमतमेवादृतं स्यादिति कृतान्तकोप एव परेषाम् / किंचैतावतापि समवायसम्बन्धेन विलक्षणसंयोगोत्पत्तौ नियामकं मृग्यम् , एतेन स्वाव्यवहितपूर्ववर्त्तिक्रियावद्वृत्तित्वविशिष्टसमवाये न विलक्षणसंयोगावच्छिन्ने समवाये न क्रियात्वेन हेतुत्वान्न व्यभिचारः, घटस्य समवायेनोत्पादं विना संयोगेनोत्पादवत् तादृशविशिष्टसमवायेनोत्पादं विना केवलसमवायेनोलत्तेरलीकतना न क्रियाविरहदशायां केवलसमवायेन विलक्षणसंयोगोत्पत्तिरित्यपि निरस्तम् , तावतापि विलक्षणसंयोगः केवलसमवायेन क्वचिदेव जायते क्वचिन्नेत्यत्र नियामकाकथनात् / यत्तु रुद्रभट्टाचार्यदृष्टम् उभयकर्मजसंयोगस्थले विजातीयसंयोगं प्रति कर्मणो या हेतुता सा नोभयकर्मत्वेन किन्तु कर्मत्वेनैव, कारणता कार्यतावच्छेदकश्च समवाय एव, एकतरकर्नजसंयोगे तादृशवैजात्याभावेन व्यभिचाराभावात् / एकतरकर्मणां तु तत्संयोगं प्रति तद्व्यक्तित्वनैव हेतुता तत्र कालिक्यैव व्यापकता कारणताघटिकेति, तन्न। सुष्टु दृष्टम् , प्रमाणान्तरसिद्धवजात्याभावे कर्मत्वावच्छिन्नजन्यतावच्छेदकतयोभयकर्मजस्थले तदवच्छिन्नवैजात्यस्यैकतरकर्मजस्थले (?) बलादापत्तेः .एकतरकर्मजस्य. समवायेनोत्पत्तौ नियामकानुपलब्धेश्च / नव्यास्तु तत्तत्यिात्कवेन कारणता तत्तत्क्रियाधीनसंयोगत्वेन कार्यता तद्व्यक्तिवृत्तित्वविशिष्टसमवायः समवायश्च कार्यकारणतावच्छेदकसम्बन्धौ, तत्तत्कर्माधीनत्वं च तत्तत्कर्मजन्यतावच्छेदको जातिविशेषो, न च यत्कर्मव्यक्त्या एक एव द्रव्ये संयोगो जनितस्तत्र तदसंभवो जातेरेकव्यक्तिवृत्तित्वाभावादिति वाच्यम् / एकयैव कर्मव्यक्त्यैकेन सममुत्तरसंयोगजननदशायामनन्तपवनगगनादिसंयोगानामवश्यं जननात् / न चोभयकर्मजन्यसंयोगे तत्तत्कर्मव्यक्तिद्वयजन्यताबच्छेदकयोः सांकर्य तत्रापि जात्यन्तरापभ्युपगमात् / न च तस्यैकव्यक्तिवृत्तित्वम् , अवच्छेदकभेदेन सर्वत्रोभयकर्मव्यक्तिजन्यसंयोगानां नानात्वावश्यकत्वात् / न च द्रव्यारम्भकसंयोगजनककर्मव्यक्तिजन्यतावच्छेदकस्य द्रव्यारम्भकतावच्छेदिकया सांकर्य कर्मव्यक्त्याऽनारम्भकगगनादिसंयोगस्याप्यवश्यं जननादिति वाच्यम् , तादृशकर्मजन्यतावच्छेदक