________________ 26] आत्मख्यातिः यदि च परमाणवः स्वरूपापरित्यागतः कार्यद्रव्यमारभन्ते स्वात्मनोऽव्यतिरिक्तं तदा कार्यद्रव्यानुत्पत्तिप्रसक्तिः। न हि कार्यद्रव्ये परमाणुस्वरूपापरित्यागे स्थूलत्वस्य संभवस्तस्य तदभावात् / स्वसमवेतव्यतिरिक्तकार्योत्पादस्तु समवायनिरासादेव वक्तुमशक्यः / किंचात्र पक्षे भूयस्योऽनुपपत्तयस्तथाहे कारणगतनीलादिना कार्यगतनीलादिवत्कारणगताणुत्वात्कार्यगताणुत्वस्योत्पत्तिप्रसंगः, न चेष्यत एव परमाणुजन्यद्वयणुके जन्याणुत्वमितीष्टापत्तिरिति वाच्यं, व्यणुकादावपि तत्प्रसंगात् / प्रकृष्टपरिमाणसामग्र्या च प्रतिबन्धात्व्यणुके नाणुत्वोपपत्तिरिति चेत् , तर्हयवयवबहुत्वमेवाणुत्वप्रतिबन्धकमित्यागतं तथा चोदासीनं(?)मादाय बहुत्ववत्परमाणुद्वयारब्धेऽणुत्वानुपपत्तिप्रसंगः / स्वपर्याप्तिमत्समवेतत्वसम्बन्धेनैव बहुत्वमणुत्वप्रतिबन्धकमिति चेत् , तथापि द्वयणुकाभ्यामारब्धं किंचिदणुद्रव्यं स्यात् / द्वयणुकाभ्यां नारम्भः प्रयोजनाभावादिति तु स्वगृहगोष्ठिमात्रं, एवं हि परमाणुभ्यामपि द्वयणुकं नारभ्यते किन्तु त्रिभिस्त्र्यणुकमित्युक्तावपि कः प्रतीकारः ? न च प्रयोजनक्षतिमिया सामग्रीकार्य नार्जयति / किंच त्रिभिव्यणुकैस्त्र्यणुकारम्भकालेऽपि द्वाभ्यां सामान्यसामग्र्या द्रव्यमारभ्य तत्राणुत्व. मुत्प(पा?)द्यतां, एतेन त्रिभिः परमाणुभिस्यणुकजननपक्षेऽपि न्यणुकोत्पत्तिकाले व्यणुकोत्पत्तिरापादयितुमशक्या द्वयणुकत्वस्य कार्यतावच्छेदकत्वात् , अन्यथा त्रिकपालघटस्थलेऽपि द्वाभ्यां द्वाभ्यां घटान्तरोत्षत्यापत्तेरिति केषांचित् समाधानं निरस्तम् , द्वाभ्यां द्वाभ्यामणुभ्यां द्रव्यारम्भे तत्र चाणुत्वोपपत्तिसंभवेऽर्थत एव तदा द्वयणुकोत्पत्यापत्तेः। अथ द्वयणुकत्रयसंयोगानां संभूयैव कार्यजनकत्वान्नोक्त दोष इति चेत् , तर्हि परमाणुत्रयसंयोगस्थलेऽप्येवं कल्पनया गतं द्वयणुकजन्याणुत्वाभ्याम् / अस्त्वयमेव पक्षः परिमाणत्वेनैव महत्त्वासमवायिकारणकारणत्वौचित्यादिति चेत् , न, तथापि परमाणुनां तथा तथा कार्यत्वपरिणत्यनभ्युपगमें परमाणुत्रयजन्यत्र्यणुकादेकपरमाण्वपगमेऽनिर्वचनीयद्रव्यप्रसंगात् / अयमेव दोषो व्यणुकत्रयजन्यत्र्यणुकपक्षेऽपि द्वयणुकस्य परमाणुत्रयादेर्वाऽपगमेऽप्युद्भावनीयः / अवयवायविनोरेकान्तमेदस्य निराकरणम् ___किंचावयवेभ्योऽवयविन एकान्तभेदे एकदेशरागे सर्वस्य रागः स्यादेकदेशावरणे च सर्वस्यावरणं भवेद्रक्तारक्तयोरावृतानावृतयोश्च भवदभ्युपगमेनैकत्वात् / यत्त्वेकस्मिन् भेदाभावे सर्वशब्दप्रयोगानुपपत्तिरित्युद्योतकरेणोक्तं तत्तु स्वशस्त्रं स्वोपघातायैवेति न्यायमनुसृतम् , एकान्ताभिनिवेश एव सर्व वस्त्रं रक्तं किंचिद्वस्त्रं रक्तमिति सार्वजनीनव्यवहारविलोपादनेकान्तवादिनां तु स्कन्ध