________________ आत्मनः शरीरपरिमाणत्वम् [27 देशादिभेदेनं तदुपपत्तेः / न च सर्वत्वमपेक्षाबुद्धिजन्यमशेषत्वरूपमिति वस्त्रपदस्य वस्त्रावयवे लक्षणया तत्र सर्वपदप्रयोगो नानुपपन्न इति वाच्यम् , अस्खलवृत्तित्वात्तप्रयोगस्य / यदपि शंकरस्वामिनोक्तं-वस्त्रस्य रागः कुंकुमादिद्रव्येण संयोग उच्यते स चाव्याप्यवृत्तिस्तत एकत्र रक्ते न सर्वस्य रागो न च शरीरादेरेकदेशावरणे सर्वस्यावरणं युक्तमिति / तदप्ययुक्तं पटादेर्निरंशस्यैकद्रव्यस्य कुंकुमादिना व्याप्ताव्याप्तंशाभावेन तत्र संयोगाव्याप्यवृत्तित्वस्यासंभवदुक्तिकत्वात् , तदारम्भकावयवस्यैव रक्तत्वे च न तस्य किंचिदव्याप्यवृत्तित्वं नाम, अवयवं व्याप्यैव रागस्य वृत्तेरवयविनश्चारक्तत्वादेव। न च स्यादित्थमवयविनि रक्तत्वप्रतीतिः / अथ तत्तदवयवे कुंकुमसंयोगाख्यो रागो जातस्तत्तदवयवावच्छेदेनावयविनी रागं जनयति कारणाकारणसंयोगात् कार्याकार्यसंयोगोत्पत्तेः अतस्तस्याव्याप्यवृत्तित्वरूपमवच्छिन्नत्वं युक्तमिति चेत् , न, तत्रावयवावयविवृत्तिक्रमोत्पद्यमानरागद्वयानुपलम्भात् / क्रमिकनानावयवसंयोगैरवयविनि संयोगस्य प्रतिबन्धकस्य सत्त्वे संयोगजसंयोगस्य जनयितुमशक्यत्वात् ,—तत्तत्संयोगजसंयोगत्वेन तत्तत्संयोगजसंयोगप्रतिबन्धकत्वे गौरवेण / संयोगजसंयोगे मानाभावाच्च / संयोगजसंयोगप्रत्याख्यानम् दुर्वचं च संयोगे संयोगस्य हेतुत्वं न हि संयोगसामान्ये संयोगो हेतुः कर्मजसंयोगे व्यभिचारात्, न च विजातीयसंयोगे संयोगस्य हेतुत्वं कार्यैकार्थसमवायेन तत्त्वे घटाकाशसंयोगस्य घटेऽपि सत्त्वे न तत्र कपालाकाशसंयोगस्याभावेन व्यभिचारात् , कारणैकार्थसमवायेन तत्त्वे चाकाशेऽपि घटाकाशसंयोगसत्त्वेन तत्र च कारणैकार्थसमवायाभावेन व्यभिचारात् / न च यत्र घटाकाशसंयोगाव्यवहितपूर्वक्षणत्वं तत्र कालिकसम्बन्धेन कपालाकाशसंयोग इति कालिकव्यापकतैव कारणताघ• टिकेति वाच्यं, तथापि घटपटसंयोगे तन्तुघटसंयोगस्येव कपालपटसंयोगस्यापि हेतुत्वेन व्यभिचारात् / न च तन्तुघटसंयोगाजन्ये तत्र कपालपटसंयोगो हेतुः कपालपटसंयोगाजन्य एव तन्तुघटसंयोगस्य हेतुताया वाच्यतयान्योन्याश्रयात् / न च विजातीये घटपटसंयोगे तन्तुघटसंयोगस्य तद्विजातीये च तत्र कपालपटसंयोगस्य हेतुत्वोक्तावपि निस्तारः, कालिकसम्वन्धेन हेतुत्वे कर्मजसंयोगस्थलेऽप्युक्तसंयोगस्यानन्त [सं.] सारे क्वचित्सत्त्वेन वैजात्यस्याव्यावर्तकत्वात् / स्वाश्रयसमवेतत्वेन समवायेन वा तत्त्वे घटपटयोः पटघटयोर्वा व्यभिचारात् / एतेन स्वाश्रयसमवेतत्वसमवायान्यतरसम्बन्धेन तद्धेतुत्वमप्यपास्तं तन्तुकपालयोरपि ताहशघटपटसंयोगोत्पत्तिप्रसंगात् , घटपटसंयोगत्वावच्छिन्ने घटपटयोविशिष्य हेतुत्वेन तद्वारणं तु तदसिद्धेरेव दुर्वचम् / एतेनैव-घटवृत्तित्वविशिष्टसमवायेन विजातीये घटपटसंयोगे समवायेन तन्तुघटसंयोगो हेतुः पटवृत्तित्वविशिष्टसमवायेन च तत्र स्वाश्रयसमवेतत्वसम्बधेन स हेतुरित्यादिरित्येकत्रैव सम्बन्धभेदेन