________________ आत्मनः शरीरपरिमाणत्वम् [25 गुणमात्रवृत्त्युदयव्ययपरिणामनिषेधः हन्तेदं नव्यनास्तिकमतमेव तथा च तदुपगमः - सन्त्यणवो नित्यास्तथापि संयुक्ताणुद्वयं व्यणुकं संयुक्ताणुषट्कं व्यणुकं संयुक्ताणुचतुर्विशतिकं चतुरणुकमित्याद्यस्तु / लौकिकविषयतया द्रव्यसाक्षाकारत्वावच्छिन्ने त्र्यणुकत्वादिघटकसंयोगानां पिशाचत्वादिघटकसंयोगभिन्नानां वैजात्येन कारणत्वान्न केवलाणुव्यणुकादेः प्रत्यक्षता / न च वैजात्यकल्पने गौरवं, त्वया द्रव्यारम्भकतावच्छेदकत्वेनाभिमतस्यैव मया पिशाचाद्यारम्भकत्वाभिमतसंयोगव्यावृत्तत्वस्वीकारात् / न च कार्यतावच्छेदकगौरवं द्रव्यनिष्ठलौकिकविषयतायां सम्बन्धत्वावश्यकत्वे साक्षात्कारत्वस्यैव तत्त्वसंभवात् / एवं हि महत्वोद्भूतरूपयोर्द्रव्यसाक्षात्कारे पृथग्घेतुत्वाकल्पनालाघवम् , तादृशसंयोगविशिष्टवृत्तित्वादिकं गुणादिप्रत्यक्षे तन्त्रमिति केवलाणुव्यणुकादिगुणाप्रत्यक्षत्वेऽपि न व्यणुकादिगुणाप्रत्यक्षत्वम् / ___न च तन्तुनामेव पटत्वे तन्तुषु पट इत्यादिधीन स्यात् स्याद्वा तन्तुषु तन्तुरित्यादिकमपीति शनीयं, फलबलेन विलक्षगसंयोगवत्त्वरूपतन्तुत्वादेरेव विलक्षणसंयोगत्वरूपपटत्वादिविशिष्टाधारतावच्छेदकत्वस्वीकारात् / पट उत्पन्नः पटो विनष्ट इत्यादिप्रतीतिस्तु शिखी विनष्ट इत्यादिप्रत्ययवद्विशेषणस्य पटत्वादिघटकसंयोगस्योत्पादविनाशविषयका / / __एकः पट इति प्रतीतिरेकं वनमित्यादिवसमूहैकत्वविषया / एतेन पटो महानिति प्रतीत्यनुपपत्तिरणूनां महत्वासंभवादिति परास्तम् , समूहमहत्त्वबुद्धौ संयोगविशेषस्यैव विषय वात् / इत्थमेव महान् धान्यराशिरिति प्रयोगः सूपपादः / त्रुटावेव विश्रामे तु त्रुटिपुञ्ज एव घटादिरिति नानुपरलेशोऽपि / -- अथ नानांशुक्रियांशुसंयोगनाशात्तन्तुनाशस्तन्नाशात्पटनाश इति समवति / तव मते तु नायं संभवो विलक्षणसंयोगवत्तावदणुपुञ्जात्मकस्य पटस्य यत्किचिन्नाशेऽपि नाशाभ्युपगमे विलक्षणसंयोगवत्तांवदणुत्वस्य पटल्बादिरूपत्वे तावत्वस्य विलक्षणद्वयत्वादिरूपस्य प्रतिसन्धान विना परत्वादिप्रत्ययानुपपत्तेः / विलक्षणसंयोगत्वादिकमेव पटत्वतन्तुत्वादिकमित्युपगमे चाशुक्रिया पुरोगनाशात्तन्तुनाशस्थले पटत्वघटकविजातीसंयोगनाशानुपपत्तिस्तदवच्छेदकावच्छे देना क्रियामायादित चेत , न, अनायत्या पटत्वघटकविजातीयतत्संयोगनाशे तन्तुत्वघटकतत्संयोगनाशत्वेन हेतुत्वस्वीकारात , इत्थमप्यन्तरां तन्त्वादिनाशाकल्पने लाघवादिति चेत् / नन्विदं नयनास्तिकत्वं स्वीकुर्वतां नैयायिकानां मतं नास्माकम् , वयं हयेवं बमोऽपरित्यक्ताजनकावस्थास्वभावानां परमाणूनां न द्वयणुका दजनकत्वं, न वा व्यणुकत्वादिघटकस्य तज्जननेऽतिशयरूपस्य वा संयोगस्य जनकत्वं तत्राप्यतिशयान्तरापेक्षायामनवस्थानात् / न च तदुत्पत्तौ क्रियेवा तिशयस्तदुत्पत्तावप्यतिशयान्तरापेक्षाया अविरामात् / अदृष्टवदात्मसंयोग एव तत्राप्यतिशय इति चेत्तत्राप्यदृष्टवृत्त्युबोधादिकारणं गवेषणीयमेवेत्यवश्यं स्वभावभेद आश्रयणीयः / आ-४