________________ आत्मख्यातिः 4] सामान्यतो भवन्त्येवासमवायिकारणानि, विशेषे तु पूर्वोक्तैव गतिरिति वाच्यम् , निमित्तपवनसंयोगादिवदणुत्वपरत्वयोरपि सामान्यतस्तद्वयवहारभाजोरव्याप्तेः / नाप्यात्मविशेषगुणान्यत्वे सति कार्यकारणैकार्थप्रत्यासत्या कारणत्वं तत्त्वं, कारणं समवायि तेन तेजःसंयोगायेकार्थसमवेतस्योष्णस्पर्शादेर्न पाकजादिकं प्रत्यसमवायित्वं, यद्यत्कार्यस्य तादृशप्रत्यासत्या कारणे यत्र नासमवायिकारणत्वव्यवहारस्तत्तत्कार्यप्रतियोगिकतवृत्तिभिन्नत्वेन कारपत्वविशेषणान्न तुरीसंयोगादावतिव्याप्तिः, विभागप्रतियोगिकसंयोगवृत्तिभिन्नत्वपटादिप्रतियोगिकतुरीतन्तुसंयोगादिवृत्तिभिन्नत्वादिनाऽविशेषणान्न पटत्वादिप्रवेशादननुगम इति निष्कर्षोऽपि युक्तः, भेदपतियोगितावच्छेदककोटौ तत्तत्कार्यप्रतियोगिकत्वादेविशिष्यनिवेशेऽननुगमस्य दुर्वारत्वात् , अखण्डभेदनिवेशे चेतरविशेषणोपादानक्लेशस्यापि निरर्थकत्वात् , सामान्यतो विशेषतश्चान्यापोहाभ्यामेव तथा तथाऽसमवायिकारणत्वव्यवहारसंभवादिति यत्किचिदेतत् / अथास्तु यत्किंचिदसमवायिकारणत्वं, न हि तेन जन्यभावत्वावच्छिन्नहेतुता, किंतु जन्यद्रव्यत्वाद्यवच्छिन्ने विजातीयसंयोगत्वादिनेति / न च कपालयोः संयोगविशेषाद्रव्यान्तरोत्पत्तौ घटोत्पत्तिवारणाय घटादिजनकतावच्छेदकः संयोगनिष्ठो जातिविशेषोऽवश्यं स्वीकरणीयस्तासामेवोत्तरकालं संयोगविशेषेण घटारम्भदर्शनात् , तत् कपालत्वमेव नास्तीति वक्तुमशक्यत्वात् , तथा च जन्यद्रव्यजनकतावच्छेदकजातौ मानाभाव इति वाच्यम् , तथापि जलज्वलनादिद्वयणुकादिजनकतावच्छेदके मानाभावात्सामान्यतो जन्यद्रव्यजनकतावच्छेदकजातिकल्पन एव लाघवात् , तदाश्रयजलादिसंयोगे सति जलाद्युत्पत्तौ विलम्बाभावात् , तथा च कपालसंयोगं विना कथं घटोत्पत्तिरिति चेत्न , संयोगकर्मजन्यतावच्छेदकजातिभ्यामभिघातत्वनोदनात्वाभ्यां च परापरभावानुपपत्त्या जन्यद्रव्यजनकतावच्छेदकजातेरेवासिद्धेः / अथ संयोगादिजन्यतावच्छेदकजातीनामेतज्जातिव्याप्यत्वस्वीकारान्न दोषः / न च विनिगमनाविरहः द्रव्यजनकतावच्छेदकजातेनोदनात्वादिव्याप्यत्वे तदाश्रयजन्यद्रव्ये जातिविशेषो वाच्यः, सोऽपि विशेषो घटत्वपटत्वादिना परापरभावानुपपत्त्या घटत्वादिव्याप्यः स्वीकरणीय इत्यनन्तकार्यकारणभावापत्तेः / अभिघातत्वादीनां नानात्वे च कर्मादिनिष्ठं तज्जनकतावच्छेदकं जातिचतुष्टयमेव कल्पनीयमिति लाघवस्य विनिगमकत्वात् / वस्तुतो द्रव्यासमवायिकारणं संयोगः कर्मज एव, न संयोगजः / किमत्र विनिगमकमिति चेत् , परमाणोस्त्रसरेणोर्वा समवेतद्रव्यं प्रत्यसमवायिकारणस्य संयोगजत्वानुपपत्तिरेवेत्यतिलाघवमिति चेत् ? हंत ! यद्येवं लाघवे दत्तदृष्टिर्भवान् तर्हि जन्यद्रव्यत्वं द्रव्यत्वं वा न जन्यतावच्छेदकं किंतु त्वदभिमतगुणकर्मादिसाधारणं, तथा चोत्पादव्ययपरिणामा गुणानामेव न द्रव्यस्येत्यस्मन्मतमेव किमिति नाश्रीयते ?