________________ आत्मनः शरीरपरिमाणत्वम् [23 ... अथ शरीरात्मनोस्तादात्म्ये शरीरावयवच्छेदे आत्मावयवस्यापि छेदप्रसक्तिरिति चेत्-न, कथंचित्तादात्म्ये कथंचिच्छेदस्याप्यभ्युपगमात् , अन्यथा शरीरात्पृथग्भूतावयवस्य कम्पोपलब्ध्यनुपपत्तेः / न च छिन्नावयवानुप्रविष्टपृथगात्मत्वप्रसक्तिस्तत्रैव पश्चादनुप्रवेशाभ्युपगमात् / अत एव तदनन्तरं न छिन्नावयवकम्पोपलब्धिः / कथं छिन्नाछिन्नयोः पश्चात्संघटनमिति चेत्न , एकान्तेन छेदस्याप्यनभ्युपगमात् , पद्मनालतन्तुवदविच्छेदस्यापि दृष्टेः, संघटनस्यापि तथाभूतादृष्टवशादविरुद्धत्वात् / न चात्मनः शरीरतादात्म्येन सावयववत्त्वे प्राक्प्रसिद्धसमानजातीय-* कपालसंयोगपूर्वको मृत्पिण्डात्प्रथममेव स्वावयवसंयोगाद्यात्मनस्तस्य प्रादुर्भावदर्शनात् / ननु नैतद् युक्तं, भावकार्यमात्रेऽसमवायिकारणस्य हेतुत्वेन कपालसंयोग विना घटानुत्पत्तेरिति चेत्-न, असमवायिकारण एव * मानाभावात् / असमवायिकारणनिर्वचननिरासः यन्निवृत्त्यवच्छिन्ना यदुत्पत्तिस्तत्तस्य समवायिकारणमितरच्च निमित्तमिति यौगिकसंज्ञया निमित्तकारणस्यैवासमवायिकारणपदेनाभिधानात् / तथा चोक्तं कारणविभागे भाष्यकृता--- __“समवाइअसमवाई, णेमित्तियमेव य णिमित्तमिति / " ' परिभाषाऽप्यसमवायिकारणस्य परैः कर्तुमशक्या। तथाहि किं नामासमवायिकारणत्वम् न तावत्कार्यैकार्थप्रत्यासत्या कारणत्वं, तन्तुरूपादौ पटरूपादेस्तदभावात् / नापि कारणैकार्थप्रत्यासत्त्या तत्त्वं, शब्दे शब्दस्य तदभावात् / नापि कार्यकारणभावनिरूपकसंबन्ध्येकार्थसमवायित्वावच्छिन्नकारणव तत् , संयोगादेविभागादिकं प्रति, तुरीतन्तुसंयोगादेश्च पटादिकं प्रत्यसमवायिकारणत्वापत्तेः / न च संयोगादिकमपि किंचित्कार्यासमवायिकारणं भवत्येव, कार्यविशेषासमवायिकारणत्वलक्षणे तु तत्तत्कारणान्यत्वमपि निवेश्यमिति वाच्यम् , निमित्तपवनाकाशसंयोगमनोगगनसंयोगादेः कार्यमात्रासमवायिकारणभिन्नस्य शब्दविभागाघेकार्थसमवायप्रत्यासत्त्या हेतोरसमवायिकारणत्वापत्तेः, ज्ञानादेरिच्छाद्यसमवायिकारणत्वापत्तेश्च / न चात्मविशेषगुणान्यत्वे सति कार्यकारणान्यतरैकार्थप्रत्यासत्तिगर्भकारणत्वाभावव्याप्यजात्यसमानाधिकरणधर्मसमवायित्वं तत् , तादृशकारणत्वाभावव्याप्यं च परत्वापरत्वबुद्धिपृथक्त्वत्वादिकं तदसमानाधिकरणं रूपत्वैकपृथक्त्वादिकं तत्समवायित्वं रूपादेरिति लक्षणसमन्वयः / मनोगगनसंयोगादयस्तु * एतत्संवादिना न्यायालोकपाठस्यानुपारेणात्र “समानजातीयावायवारभ्यत्वप्रसक्तिरिति वाच्यम्, तथा माप्त्यसिद्धे, घटादिना व्यभिचारात् / घटादिर्हि सावयवोऽपि न तन्तुवत्प्राक्सिद्धसमानजातीयकपालसंयोग" इति पाठस्य संयोजनेनार्थसंगतिः स्पष्टा जायते /